SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व तृतीयः सर्गः ॥६७॥ अजितसगरचरितम्। 28282828282828282828282828 प्रतीहार्यभवन् केचिन्मन्त्र्यभूवंश्च केचन । केऽप्युपानद्धर्यभूवंश्छत्र्यभूवंश्च केचन ॥ ४३ ॥ स्थगीवाह्यभवन् केचित्, प्रेष्य्यभूवंश्च केचन । अस्त्रधार्यभवन् केचिदमराः क्रीडतः प्रभौः ॥४४॥ पाठं पाठं च शास्त्राणि, सगरोऽपि दिने दिने । स्वनियोग नियोगीवाऽजितेशाय व्यजिज्ञपत् ॥ ४५ ॥ उपाध्यायेनाऽप्यभग्नान, संशयान् सगरः सुधीः । पप्रच्छ स्वामिनं नाभिनन्दनं भरतेशवत् ॥४६॥ मति-श्रुता-ऽवधिज्ञानैरजितस्वाम्यपि द्रुतम् । चिच्छेद तस्य सन्देहांस्तमांसीवेन्दुरंशुभिः ॥ ४७ ॥ त्रिभिर्यतैः समाक्रामन्, दृढासनपरिग्रहः । प्रसार्याऽदर्शयत् तस्मै, स व्यालमपि हस्तिनम् ॥ ४८ ॥ सपर्याणानपर्याणान्, शूकलानपि वाजिनः । तत्पुरो वाहयामास, धाराभिरपि पञ्चभिः ॥४९॥ राधावेधं शब्दवेधं, जलान्तर्लक्षवेधनम् । चक्रमृत्पिण्डवेधं च, बाणैः सोऽदर्शयत् प्रभोः ॥५०॥ अदर्शयत् पादगति, फलकाऽसिधरश्च सः । प्रविष्टः फलकमध्येऽभ्रमध्य इव चन्द्रमाः ॥५१॥ कुन्तं शक्तिं शर्वलां च, भ्रमयामास वेगतः । नभसि भ्राम्यदुद्दामविद्युल्लेखाभ्रमप्रदान् ॥५२॥ सर्वैरपि छुरीस्थानैः, सर्वचारीविचक्षणः । अदर्शयच्छुरीविद्यां, स नृत्यमिव नर्तकः ॥५३॥ अजितस्वामिनेऽन्येषां, शस्त्राणामपि कौशलम् । अदर्शयद् गुरुभक्त्या, तच्छिमादित्सया च सः ॥५४॥ न्यूनं यक्तिञ्चिदप्यासीत्, कलासु सगरस्य तु । स्वामी तदशिषत् तादृक्, तादृशस्य हि शिक्षकः ॥५५॥ एवमात्मानुरूपं तौ, चेष्टमानावुभावपि । आद्यं वयो ललचाते, ग्रामसीमामिवाऽध्वगौ ॥५६॥ समानचतुरस्रेण, संस्थानेनोपशोभितौ । वज्रऋषभनाराचाख्येन संहननेन च ॥५७॥ १ छत्रधारका अभूवन् । २ ताम्बूलकरण्डकः स्थगीत्युच्यते । ३ ताडनैः । ४ दुष्टम् । ५ उद्धतान् । ६ तच्छिक्षाग्रहणेच्छया। 28282828282828282828282828 सगरचक्रिणो विद्याभ्यासः। ॥६७॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy