SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ ६० ॥ FREREREREDERERERERERERERERE ब्राह्मणानां गुरुर्वेदोदितमन्त्रध्वनिः क्वचित् । क्वचिल्लग्नादिविचारसारा मौहूर्तिकोक्तयः ॥ ५३८ ॥ क्वचिच्च कुलनारीणामुलूंलध्वनिरुत्तमः । गीतध्वनिश्च मङ्गल्यः क्वचिद् वारर्मृगीदृशाम् ॥ ५३९ ॥ कल्याणकल्पनाकल्पो, बन्दिकोलाहलः क्वचित् । क्वचित् पुनश्चारणानां, चारुद्विपथकाशिषः ॥ ५४० ॥ अन्योऽन्यं चेटवर्गाणां, हर्षोत्ताला गिरः क्वचित् । वेत्रिकोलाहलः क्वाऽपि याचकाह्वानबन्धुरः ॥ ५४१॥ राजवेश्माङ्गणे प्राप, शब्द एकातपत्रताम् । नमस्तले गॅजिरिव, प्रावृषेण्याब्दसङ्कुले ॥ ५४२ ॥ ॥ पञ्चभिः कुलकम् ॥ व्यलिप्यन्त क्वचिल्लोकाः, कुङ्कुमादिविलेपनैः । क्षौमादिभिर्निवसनैः, पर्यधाप्यन्त च क्वचित् ॥ ५४३ ॥ सम्मान्यन्ते स्म च क्वापि, दिव्यमाल्यविभूषणैः । कर्पूरमिश्रताम्बूलैरप्रीयन्त क्वचित् पुनः ॥ ५४४॥ कुङ्कुमेन व्यधीयन्त, सेचनानि गृहाङ्गणे । स्वस्तिकाश्च व्यरच्यन्त, मौक्तिकैः कुंवलप्रमैः ॥ ५४५ ॥ प्रत्यग्रकदलीस्तम्भैस्तोरणाश्च बबन्धिरे । स्वर्णकुम्भा न्यधीयन्त, तोरणानां च पार्श्वयोः ॥ ५४६ ॥ सुमनोगर्भधम्मिल्लाः, पुष्पस्रग्मौलिवेष्टनाः । कण्ठावलम्बिदामान:, साक्षादिव ऋतुश्रियः ॥ ५४७ ॥ रत्नताडङ्क-केयूर-निष्क-कङ्कण-नूपुरैः । आरोचमाना रुचिरै, रत्नाद्रेरिव देवताः ॥ ५४८ ॥ उत्तरीयैरुभयतो, लम्बमानचलाञ्चलैः । श्रोणीबद्धपरिकराः, कल्पद्रुमलता इव ॥ ५४९ ॥ १ विवाहाद्युत्सवेषु स्त्रीणां हर्षावेदको ध्वनिविशेषः । २ वेश्यानाम् । ३ दासवर्गाणाम् । ४ गर्जनैव । ६ नवीनकदलीस्तम्भैः । ७ केशपाशाः । ८ वक्षसि परिधानीयमाभूषणम् । ५ बदरप्रमाणैः । CREDEREREREDEREREREREDERERKI द्वितीयं पर्व द्वितीयः सर्गः अजित सगर चरितम् । जितशत्रुराजविहितोऽजितजिन सगरचक्रिजन्मोत्सवः । ॥ ६० ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy