________________
प्रथमा ]
जयाऽलङ्कृतः
८३
वच्छिन्न विशेष्यकशाब्दबोधापत्तेः । तथा च तदभावान्न घटों घट इत्यादौ घटत्वे तादृशो बोध इत्याशयः । ननु द्रव्यत्वावच्छिन्न विशेष्यकनिरुक्तयोग्यताज्ञानादिघटिता सामग्री आत्मनिष्ठप्रत्यासत्त्या कारणीभूता तस्याः कार्य्यतावच्छेदकस्समवाय एव न तु धम्मितावच्छेदकस्तर्हि तेन सम्बन्धेन तस्याः कथं द्रव्यत्वे कार्योत्पादकत्वमिति चेत् — प्रत्रोच्यते । ग्रात्मनिष्ठप्रत्यासत्त्या कारणीभूताया द्रव्यत्वावच्छिन्नविशेष्यताकोपस्थितितदवच्छिन्न
विशेष्यकघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानादिघटितायास्सामग्र्याः का
र्य्यतावच्छेदकं घटत्वावच्छिन्न प्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वम् । तद्धकत्वञ्च द्रव्यत्ववृत्तिर्धाम्मतावच्छेदकतायास्तथा च धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे जायमानाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबुद्धित्वं निरुक्तकार्य्यतावच्छेदकसमनियतं समनियतधर्मावच्छिन्ने कार्य्ये जननीये समनियतधर्म्मावच्छिन्नकाय्र्योत्पादकसामग्या अपेक्षा । अत एव कालादौ कालिकादिसम्बन्धेन जायमाऩशाब्दबोधं प्रति कालिकादिसम्बन्धेन काले जायमानशाब्दबुद्धित्वस्य समनियतं समवायेनात्मनि जायमानशादबुद्धित्वं तद्धर्मावच्छिन्नस्य करणीभूता या आत्मनिष्ठोपस्थित्यादिघटिता सामग्री सैवापेक्ष्यते न तु काले सामग्यन्तरापेक्षा । अतो धम्मितावच्छेदकताया कार्य्यतावच्छेदकसम्बन्धताविरहेऽपि तेन सम्बन्धेन कार्य्योत्पत्तावुपस्थित्यादिघटिताया अपेक्षेति युक्तमेव ।
ननु यथा आत्मनि विद्यमाना द्रव्यत्वावच्छिन्नोपस्थित्यादिघटिता सामग्री स्वीयकार्य्यतानवच्छेदकेनापि धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे शाब्दबोधं जनयति तथैव घटत्वेऽपि तेन सम्बन्धेनाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबोधं कथन्नोत्पादयतीति चेत् न । द्रव्यत्वे विद्यमानधम्मितावच्छेदकताया एव तदीयकार्य्यतावच्छेदकधर्म्मघटकत्वं न तु घटत्वे विद्यमानायास्तस्या इति घटत्वे तेन सम्बन्धेन जायमानघटप्रकारकाभेदबुद्धित्वस्य तदीयकार्य्यतावच्छेदकद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वसमनियतत्वाभावात् ।