________________
व्युत्पत्तिवादः
[ कारके च्छेदकतया द्रव्यत्वादौ तदुत्पादनियामकसामग्य एवापादकत्वात्। न च धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वादौ तादृशान्वयबोधोत्पत्तिप्रयोजिका द्रव्यपदजन्यद्रव्यत्वाद्यवच्छिन्नविशेष्यकोपस्थितितदवच्छिन्नविशेष्यकयोग्यताज्ञानादिघटितसामग्येव । धर्मितावच्छेदकतायास्तत्कार्यतावच्छेदकताविरहेऽपि द्रव्यत्वादिनिष्ठायास्तत्कार्यतावच्छेदकधर्मघटकत्वात् तादृशसामग्यश्चात्मनिष्ठप्रत्यासत्त्या द्रव्यत्वाद्यवच्छिन्नविशेष्यकघटत्वाद्यवच्छिन्नाद्यभेदबुद्धित्वरूपस्वीयकार्यतावच्छेदकावच्छिन्नोत्पत्तेरेव व्याप्यत
प्रकारताकनिरुक्तकार्य प्रति या नीलाद्युपस्थितिघटिता सामग्री तत्प्रयोज्यमेव वक्तव्यम् । तर्हि नीलाद्युपस्थित्यभावे तत्सत्त्वस्य न प्रसङ्गः ।
द्रव्यत्वादावित्यादि। अमं भावः । द्रव्यं घट इत्यादौ यो द्रव्यत्वावच्छिन्नविशेष्यतानिरूपितघटत्वावच्छिन्नप्रकारताक: शाब्दबोधः सोऽभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकः धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे प्रसिद्धश्च । तादृशस्याभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबोधस्य धम्मितावच्छेदकतासम्बन्धेन घटो घट इत्यादौ घटत्वे आपत्तिस्सम्भवति । अम्पादकोऽपि द्रव्यं घट इत्यादौ द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधोत्पादकं यदभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताक योग्यताज्ञानं घटत्वावच्छिन्नप्रकारताकबोधजननेच्छयोच्चरितत्वरूपतात्पर्य्यज्ञानं घटत्वावच्छिनोपस्थितिरित्येतत्समुदायो यो धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वेऽभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबोधोत्पादकः स एवेति ।
अत्र शङ्कते। द्रव्यत्वे निरुक्तसम्बन्धेन निरुक्तशाब्दबोधोत्पादिका द्रव्यत्वावच्छिन्नविशेष्यताकाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकयोगयताज्ञान -द्रव्यपदजन्यद्रव्यत्वावच्छिन्नविशेष्यताकोपस्थित्यादिघटितैव सामग्री अन्यथा अन्यधर्मावच्छिन्नविशेष्यताकयोग्यताज्ञानादिनाऽन्यधर्मा