________________
स्थलेऽपि तत्संसर्गकबोधस्यैवोपगमादितिदि। सोकं पचति मृदु पचतीत्यादौ विरुद्धविभक्त्यवरुद्धपदोपस्थापितस्यापि स्तोकमृद्वादेर्धात्वर्थपाकादावभेदान्वयोऽपि व्युत्पत्तिसिद्धः,तदनुरोधेन च द्वितीयान्नपदधातुपदयोः समभिव्याहारस्याप्यभेदान्वयबोधौपयिकाकाङ्क्षात्वमुपगम्यते क्रियाविशेषणस्थले च न द्वितीयातिरिक्तविभक्तिरुत्पद्यते, क्रियाविशेषणानां कर्मत्वमित्यनुशासनेन तत्र कर्म
स्थले पीति । शक्तिभ्रमलक्षणाग्रहस्थले पीत्यर्थः । तत्रांसर्गकेति । अभेदसंसर्गकेत्यर्थः । तथा च न कार्यकारणभावद्वयमिति बोध्यम् । न च विभक्तिनिष्ठवृत्तिज्ञानाधीनोपस्थितीयसंसर्गताभिन्नविषयतायाः शाब्दबोधीयप्रकारताविशेष्यतान्यतरविषयताप्रयोजिकायाः सत्त्वे कस्यचिदिच्छामात्रेण विभक्त्यर्थस्य संसर्गतया भानन्नोचितमिति वाच्यम् । शब्दबोधे तात्पर्य्यज्ञानस्याऽपि कारणतया तत्संसर्गकबोधस्यैवानादितात्पर्य कल्पनात् । वस्तुतस्तु अभेदप्रकारकबोधस्यैव भेदान्वयप्रकरणे सिद्धान्तयि यमाणत्वेन प्रकृतग्रन्थस्य धूलीप्रक्षेपमात्रत्वात् । द्वितीयान्तपदधातुपदयोरिति । अभेदान्वयबोधे- द्वितीयान्तस्तोकादिपदसमभिव्याहतपचत्यादिपदत्वरूपाक्राइहाज्ञानं कारणमेवं रीत्या कार्यकारणभावो वक्तव्यः । इदमुमताक्षणम् । यादृशयादशसमभिव्याहारादभेदान्वय इष्यते तादृशतादृशसमभिव्याहारस्य कारणत्वं वक्तव्यम् । यथा वेदाः प्रमाणं सोमेन यजेदित्यादौ । क्रियाविशेषणानामिति । मब स्तोकं पचतीत्यादौ धात्वर्थफलस्य व्यपदे शवद्भावेन फलाश्रयत्वात् । तादात्म्यफलतावच्छेदकसम्बन्धान्यतरसम्बन्धेन फलाश्रयस्य कर्त्तरित्यनेन कर्मत्वमिति स्वीकारेणैवोपपत्तावपर्वस्याति देशवचनस्य स्वीकारो वर्षः। स्तोकं तिष्ठतीत्यादौ फलस्यापि धात्वर्थत्वापगमेन न दोषः । "न च तर्हि सकर्मकत्वापत्तिः । स्वार्थफलजनकव्यापारव चकत्वस्यैव सकर्मकत्वादिति वाच्यम् । स्वार्थफलव्यधिकरणव्यापारवाच रुत्वं तत् । स्था