SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ तम् । न च स्त्राभेदे-विशेषणविभक्तेः शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र सर्वमत एवाभेदप्रकारकबोधस्य नीलो घट इत्यादिवाक्यादुत्पत्त्या तादृशसममिव्याहारज्ञानस्य द्विविधबोधे हेतुताद्वरं कल्पनीयम्, भेदस्य संसर्गतावादिनेति गौरवम् । एवं तादृशसमभिव्याहारज्ञानघटितसामग्र्या भिन्नयोग्यताज्ञानघटितत्वेन द्वैविध्यमिति भिन्नविषयकप्रत्यक्षादिकं प्रति तादृशशाब्दसामग्रीप्रतिबन्धकताया अप्याधिक्यमिति वाच्यम् । अभेदस्य संसर्गतावादिनोक्त सम्बन्धावच्छिन्न प्रकारताकम् । तथा च तद्धटितसामग्रचपि भिन्ना । तयोश्च भिन्नविषयकप्रत्यक्षम्प्रति प्रतिबन्धकताद्वयम् । प्रकारतामते च एक एवाभेदप्रकारको बोध: । योग्यताज्ञानमप्येकमेवाभेदप्रकारकम् । तद्घटिता एकैव सामग्री। तस्या भिन्नविषयकप्रत्यक्षं प्रति एकैव प्रतिबन्धकतेति प्रतिबध्यप्रतिबन्धकभावेऽपि लाघवाद्वृत्तिकल्पनं नानुचितमित्याह-न च यत्रेत्यादिना वाच्यमित्यन्तेन । यदि च नीलो घट: श्यामो घट इति वाक्यद्वयजन्यकाकारकबोयोदयेनाकाङ्क्षाज्ञानस्य द्वैविध्येन च परस्परजन्यबोधे व्यभिचारवारणाय कार्यतावच्छेदककोटौ कारणानन्तर्यनिवेशस्यावश्यकवेन तदेव जन्यतावच्छेदकमस्तु । विषयतानिवेशश्च मास्तु । स्वोत्तरशाब्दबोधे नीलो घट इत्याकाङ्क्षाज्ञानं कारणं स्वोत्तरशाब्दबोधे श्यामो घट इत्याकाङ्क्षाज्ञानं कारणमितिरीत्यैव कार्यकारणभावो वक्तव्य इति बोधस्य द्वैविध्येऽ पे एक एव कार्यकारणभावः । संसर्गतामतेऽपि अत एव( भेदान्वयप्रकरणे पर्यायस्थले व्यभिचारवारणायानयैव रीत्या विषतामनिवेश्य एक एव कार्यकारणभावः स्वीकृत इमि मन्यसे । तथाऽपि प्रतिबन्धकताद्वयं संसर्गतावादिमतेऽवश्यमित्याह-एवमिति । वस्तुतस्तु विषयविशेषविषयकशाब्दबोधे आकाङ्क्षाज्ञानस्य कारणत्वाभावे विषयविशेषविषयकशाब्दबोधार्थिनो वाक्यविशेषोच्चारणे एव प्रवृत्तिरिति नियमानुपपत्त्या कार्यतावच्छेदककोटौ विषयतानिवेश आवश्यक एवेति बोध्यम् । उक्त
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy