SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३२४ व्युत्पत्तिवादः । पाख्याते पपत्तेः । कर्तरि शबित्याद्यपवादविषयतया यकोऽप्यनिर्वाहादिति सार्थकत्वात् । न च कर्मत्वकर्तृत्वयोरुभयोस्तत्र बोधस्वीकारे तदेकतरस्याख्यातार्थतयोद्देश्यतावच्छेदकतया भानासंभवात्समूहालम्बनबोध एव स्वीकरणीय इति वाक्यभेदापत्तिरिति वाच्यम् । एकत्र द्वयमिति रीत्या तदुभयबोधस्य समूहालम्बनविलक्षणस्य स्वीकारात्। यदि च विधेयद्वयत्वज्ञानं समूहालम्बनात्मकमेव । अत एव विधेयभेदे वाक्यभेद इतिमीमांसकसिद्धान्तोऽपीत्युच्यते, तदास्तुधातोरेव स्वकर्मकक्रियायां लक्षणा। कर्तृत्वसंबन्धमध्य एव वा स्वनिरूपकक्रियाकर्मत्वस्याप्यन्तर्भाव इत्यलम्। ___ एवमकर्मकत्वेऽपि प्रसूते गौःप्रासोष्ट गौः, नमते दण्डमूलमनस्त दण्ड इत्यादौ ण्यर्थान्तर्भावेणैव कर्मकर्तृतानिर्वाहे "न दुहस्नुनमां यचिणा” विति यचिनिषेधोपपत्तिः। एवं चैत्रेण पक्ष्यत इत्यादौ कर्तृत्ववाचकताया दुरपह्नवत्वात् तृतीया नुपपत्तिः। चैत्रः पक्ष्यत इत्यादी लकारेण कर्तृत्वबोधनात्स्याल्लकारसाधारणरूपस्य तद्वाचकतावच्छेदकताध्रौव्याच्च । नापि तदवोधकत्वं तदनभिधानं चैत्रेण पच्यत इति वाक्यजबोधे कर्तृत्वविषयके तादृशवाक्यघटकसकलपदानामेव जनकतया तघटकलकारस्यापि कर्तृत्वबोधकताया वाङ्मात्रेणाप्रत्याख्येयत्वात् । कर्तत्वविषयत्वाप्रयोजकत्वं लादीनां तदनभिधायकत्वं चैत्रेण पच्यत इत्यादौ धात्वर्थविशेषणतया कर्तृत्वविषयता तृतीयाप्रयोज्यैव न त्वाख्यातप्रयोज्या । आख्यातस्याश्रयतासंबन्धावच्छिन्नकर्तृत्वप्रकारताया एव कार्यतावच्छेदकत्वादित्यपि न सम्यक् । पचतीत्यवान्तरवाक्यार्थबोधासंग्राहकतया प्रकारताया एवाख्यातजन्यतावच्छेदकत्वासंभवात् । प्रथमान्तसमभिव्याहारज्ञानस्य योग्यताज्ञानादेर्वा जन्यतायामुक्तप्रकारताया अवच्छेदकत्वात्। यदि च 'प्रथमान्तपदसमभिव्याहृताख्यातपदजन्यतावच्छेदकतयैव धर्मिविषयतानिरूपितकर्तृत्वविषय
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy