SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ कविषयित्वं, तादृशकमोख्यातस्य लौकिकविषयत्वमर्थः। उपनीतसौरभादिविषयकसुरभिचन्दनमित्याकारकचाक्षुषादिदशायां सौरभं पश्यतीति, सौरभं दृश्यते इत्याद्यप्रयोगात् । अथैवं पुष्पं जिवतीत्यादिप्रयोगानुपपत्तिः। ब्राणजप्रत्यक्षस्य पुष्पाद्यंशे लौकिकत्यविरहात । तादृशधातुयोगे विषयित्वादिसामान्यस्य कर्मप्रत्ययार्थत्वे गन्धसाक्षाकारे उपनयमर्यादयाकाशादिभाने आकाशं जिव्रतीति प्रयोगप्रसंगेन तत्रापि लौकिकविषयिताया एव कर्मप्रत्ययार्थतयोपगन्तव्यत्वादिति चेत्-न । ब्राधातोहि गन्धलौकिक प्रत्यक्षत्वं शक्यतावच्छेदक, प्रागन्धोप्रादाने इत्यनुशासनात्। तत्समभिव्याहृतद्वितीयायाश्चाधेयत्वमेवार्थस्तस्य च व्युत्पत्तिवैचित्र्येण गन्धादिरूपधात्वर्थकदेशेनान्वयः। एवं च पुष्पं जिघ्रतीत्यादितः पुष्पवृत्तिगन्धलौकिकप्रत्यक्षाश्रयताबानित्याकारक एव शाब्दबोधो न तु पुष्पनिरूपितलौकिकविपयिताशालिप्रत्यक्षाश्रय इत्याकारक इति नानुषपत्तिः। न चैवं सविपयार्थबोधकधातुसमभिव्याहृतकर्मप्रत्ययस्य विषयितार्थकत्वनियमभङ्गप्रसङ्ग इति वाच्यम् । विषयानवच्छिन्नतादृशवस्त्पभिधायकधातुसमभिव्याहृतकर्मप्रत्ययस्यैव तदर्थकत्वनियमात् । अस्य च गन्धात्मकविषयावच्छिन्नप्रत्यक्षवाचकतया तादृशनियमस्यावाधितत्वात् । न च घ्राधातसमभिव्याहृतद्वितीयाया गन्धान्विताधेयवार्थकत्वे आमोदमुपजिघ्रतीत्यादेरनुपपत्तिः। गन्धविपरूपामोइपदार्थाधेयत्वस्य गन्धे बाधादिति वाच्यम् विषयावच्छिन्नप्रत्यनार्थकवाधातुसमभिव्याहृतद्वितीयाया एव आधेयतार्थकांनयमात् । तत्र विषयानवच्छिन्नस्यैव प्रत्यक्षविशेषस्य लक्षणया धात्वयतोपगमेन विषयिताया एव तदर्थत्वात् । गन्धलौकिकेति । गन्धनिरूपितलौकिकवियितावत्प्रत्य त्वमित्यर्थः घ्रा गन्धोपादान इति । अन्यथा घ्रा घ्राणे इत्येव वदे दति ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy