SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ विहगं गच्छ नीत्यादौ विहगादिप्रकृत्यर्थवृत्तित्वविशिष्टसंयोगस्य क्रियायां जनकत्वस्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेनान्वयोपगमात्, विहगनिष्टक्रियायास्तद्विहगनिष्ठसंयोगजनकत्वेन तजनकतासम्बन्धेन तत्संयोगवत्वेऽपि विहगवृत्तित्वविशिष्टतत्संयोगाश्रयतद्विह गनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावान्नोक्तोभयसम्बन्धेन विशिष्टसंयोगवत्त्वमित्यनतिप्रसङ्गात् । एवं सति परसमवेतत्वं सम्बन्धघटकमेव न तु द्वितीयार्थ इति चेत्-का क्षतिः। 'विहगो विहगेन गम्यते इत्यादावपि जन्यत्वस्वावच्छिन्नभेदसामानाधिकरण्योभासंबन्धेन क्रियायाः+ संयोगेऽन्वय इष्यते तत्तक्रियावच्छिन्नभेदवति भूम्यादावेव तादृशभेदसामानाधिकरण्यसम्बन्धेन तक्रियाविशिष्टसंयोगादिमत्त्वोपगमात् , तत्र तक्रियाश्रयविहगे तद्बाधेन नातिप्रसङ्ग इति ध्येयम्। ज्ञानादिरू सविषयकवस्त्वभिधायकधातुसमभिव्याहृतद्वितीयाया: प्राचीनमते निरूपकतासंबन्धेन धात्वर्थान्वयि विषयत्वमर्थः । तत्र प्रकृत्यर्थरर धेियतासंबन्धेनान्वयः। वृत्त्यनियामकसंबन्धस्याभावप्रतियोगिता नवच्छेदकतया घटं जानाति पटं नेत्यादावनुपपत्तेस्तत्र विपरि त्वार्थकत्वमेव नवीना उपवर्णयन्ति । तत्र च प्रकृत्यर्थस्य निरू पितत्वसंवन्धेन तस्य च धात्वर्थे आश्रयतासंबन्धेनान्वयः । घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषयित्वमेव । बिपयित्वादौ च द्वितीयाया लक्षणैव न तु शक्तिरिति सांप्रदायिकाः। ___वस्तुतस्तु विपयितात्वस्य संयोगत्वाद्यपेक्षया आधेयतात्वाद्यपेक्षया चागुरुतय किंधर्मावच्छिन्ने शक्तिः कल्प्यते इत्यत्र विनिगमकं दुर्लभम् । एकस्मिन् प्रयोगे भूयस्त्वमप्यशक्यनिर्णेयमिति तत्रापि शक्तिः सिद्धयती यवधेयम् । चैत्रेण ज्ञायते घट इत्यादौ कर्माख्यातस्थले आख्या नि घटादौ धात्वर्थनिरूपितविषयत्वं बोध्यते। चालुपत्वाद्यवृच्छिन्नवाचक दृश्यादिसमभिव्याहृतद्वितीयाया लौकि
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy