SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ वच्छिन्नस्पन्दस्य पतधात्वर्थत्वात् धात्वर्थतावच्छेदकीभूतफले आधेयत्वान्वयतात्पर्येण भूमि पततीति प्रयोगापत्तिः । न च द्वितीयोपस्थापनाधेयत्वप्रकारकफलविशेष्यकान्वयबोधे गम्यादिजन्यफलोपस्थितितत्समभिव्याहारज्ञान वटितसामय्येव प्रयोजिका, न तु पतधातुजन्यतदुपस्थितिघटितासामग्रीति नातिप्रसङ्ग इति वाच्यम् । पतधातुनैव यत्र संयोगावच्छिन्नं गमनं लक्षणादिनोपस्थापितं तत्र स्योगे द्वितीयार्थाधेयत्वान्वयात् । अबाहुः । धातुजन्यशुद्धसंयोगावच्छिन्नस्पन्दोपस्थितेः शाब्दबोधकारणताया नवच्छेदकघटक संयोगविषयतायामधिकरणानवच्छिन्नत्वं विशेषणं देयम् । तथा च तादृशविषयताशालिसंयोगावच्छिन्नोपस्थित्यादिघटितसामन्या एव संयोगविशेष्यक द्वितीयो - पस्थाप्याधेयत्वान्वयबोधप्रयोजकत्वोपगमान्नातिप्रसङ्गः । न चैवमपि फलावच्छिन्नव्यापारबोधकतया पतेः सकर्मकत्वव्यवहारापत्ति वेति वाच्यम् । आश्रयानवच्छिन्नफलावच्छिन्नव्यापारबोधकस्यैव तादृश व्यवहारनियामकत्वात् । उत्तरदेशानवच्छिन्नसंयोगः फलं गम्पर्थतावच्छेदकमिति नानुपपत्तिः । अत एवाग्निसंयोगावच्छिन्नक्रियानुकूलव्यापारस्य जुहोत्यर्थतया धात्वर्थताबच्छेदकसंयोगाः यस्याप्यग्नेर्न तत्कर्मता । आश्रयानवच्छिन्नावच्छेढकताश्रयफलवत्त्वविरहात् । संयोगनिष्ठाया धात्वर्थतावच्छेदकताया आश्रयेणाशिनाऽवच्छिन्नत्वात् । न चानिविशेषितसंयोगस्य धात्वर्थतावच्छेदवा फलत्वेऽग्नौ घृतं जुहोतीत्यत्रानन्वयप्रसङ्गः उद्देश्यतावच्छेदक विधेय पोरैक्यादिति वाच्यम् । तत्र संयोगनिष्ठायामुद्देश्यतायां वह्नेराधेयतासंसर्गेणावच्छेदकतया सप्तम्यर्थस्यानिवृत्तित्वस्य च विधेयतया उद्देश्यतावच्छेदकविधेययोरैक्यानवकाशात् । वस्तुतस्तु तत्र वह्नेरनन्वयेऽपि न क्षतिः । व्युत्पन्नानां ताहशप्रयोगस्याप्रामा·िएकत्वात् । संस्कृते वह्नौ जुहुयादित्यादिस्थले
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy