SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ मितीच्छायाञ्च सत्यां प्रत्यक्षमेव भवति प्रत्यक्षं विना इच्छाविषयासिद्धेः । उक्तानुगतरूपेण शाब्दसामग्रयाः प्रतिबन्धकताकल्पनायान्तु प्रत्यक्षं दुरुपपादमेव स्यादिति घटवद्भूतलमित्यादिप्रत्यक्षेच्छाविरहविशिष्टराज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्री घटवद्भूतलमित्यादिप्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धिकेति विशिष्यैव प्रतिबध्यप्रतिबन्धकभावः कल्पनीय इति राजनिरूपितस्वत्वाभाववान् पुरुष इत्यादि प्रत्यक्ष प्रति प्रतिबन्धकताकल्पनं संसर्गतावादिनां गौरवमिति । यत्तु घटवद्भूतलमितिप्रत्यक्षेच्छाविरहविशिष्टराज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्री विभिन्न विषयकप्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धिकेति अन्यदीयप्रत्यक्षस्थलीयप्रतिबन्धकतामादाय निरुक्तप्रत्यक्षस्यापि प्रतिबध्यत्वमिति तदपि न । पटवद्भुतलमित्यादिप्रत्यक्षसामग्री राज्ञः पुरुष इति शाब्दसामग्री च यत्रास्ति तत्र पटवद्भूतलमिति प्रत्यक्षं जायतामितीच्छायां प्रत्यक्षं जायते । इदानीं हि घटवद्भूतलमित्यादिप्रत्यक्षेच्छाविरहविशिष्टराज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयाश्च सत्त्वेन प्रतिबन्धकसद्भावात् प्रत्यक्षत्वानापत्तेः । सामान्यन प्रत्यक्षेच्छाविरहविशिष्टशाब्दसामग्रयाः प्रतिबन्धकत्वमित्यपि न वक्तुं शक्यते, यद्विषयकप्रत्यक्षसामग्री तदन्यविषयकप्रत्यक्षेच्छायामपि प्रत्यक्षापत्तेरिति नान्यदीयप्रत्यक्षस्थलीयप्रतिबन्धकतामादाय संसर्गतावादिनां निर्वाह इति विशिष्य प्रतिबध्यप्रतिबन्धकभावकल्पनोयां गौरवमिति बोध्यम् । यदप्याहुः-स्वजन्यशाब्दबोधाविषयविषयकत्वस्वसमानाधिकरणेच्छाविषयत्वाभाववत्त्वोभयसम्बन्धेन स्वविशिष्टप्रत्यक्षत्वावच्छिन्नम्प्रति राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयाः प्रतिवन्धकत्वमित्यनुगमसम्भवस्तथा च यत्र विभिन्नविषयकप्रत्यक्षसामग्री शाब्दसामग्री चास्ति तत्र चासत्यां प्रत्यक्षेच्छायां शाब्दबोध एव, न प्रत्यक्षं तस्य म्बनात्मकप्रत्यक्षन्न भवति। राज्ञः पुरुप इत्येतद्वाक्यजन्यशाब्दसामग्रीकाले पटवद्भूतलमित्येतादृशप्रत्यक्षस्य बाधात् । किन्तु घटवद्भूतलमित्येतादृशप्रत्यक्ष
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy