SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अस्मन्मते तादृशसमभिव्याहारघटितसामग्य राजस्वत्वाभाववान पुरुष इत्यादिवाधाभावघटिततया तत्सत्त्वे विशेष्यतावच्छेदकादिप्रकार कनिश्चयरूपकारणविरहादेव तथाविधविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षोत्पत्त्यसंभवेन तादृशसामग्यास्तत्र प्रतिवन्धकत्वस्याकल्पनात् । अन्याशप्रत्यक्षस्थलीयप्रतिबन्धकतया च न त्वन्मते निवहः। अन्यत्रान्यविधप्रत्यक्षेच्छानामुत्तेजकतया . __ न त्वन्मते निवह इति । संसर्गतावादिमते इत्यर्थः । न च विभिन्नविषयकप्रत्यक्षत्वावचिदन्नं प्रति राज्ञः पुरुष इत्यादिवाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वं घटवद्भूतलमित्यादिप्रत्यक्षत्वावच्छिन्नं प्रति कल्पनमभयोरावश्यकमिति तादृश् प्रतिबन्धकतामादायैव निर्वाहे किं गौरवमिति चेत्सत्यम् । तथा सति समानविषयकप्रत्यक्षस्य यत्किञ्चिदपेक्षविभिन्नविषयकतादृगमामग्रया अपि प्रबिध्यत्वापत्तेः । एवञ्च नामोच्चारणपूर्वकं प्रतिबन्धकलानमावश्यकमिति पादृशविशिष्टबुद्धि प्रति प्रतिबन्धकत्वं भवतामधिकमिति दिक् । स्वजन्य शब्दबोधाविषयविषयकप्रत्यक्षत्वावच्छिन्नं प्रति राज्ञः पुरुष इत्यादिवाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वं घटवद्भूतले पटवद्भूतलमित्यादिनाना प्रत्यक्षत्वावच्छिन्नं प्रति अनगतरीत्या प्रतिबन्धकत्व- । कल्पनमस्माकं भवताः चावश्यकमेवेति राजनिरूपितस्वत्वाभाववान् पुरुषः सुन्दर इत्यादिप्रत्यक्षस्य पि प्रतिबद्धयतावच्छेदकाक्रान्ततया तादृशप्रतिबद्धयप्रतिबन्धकभावेनैवेष्टसिद्धिरिति कथन्न निर्वाह इति वाच्यम् । यतो हि विभिन्नविषयकशाब्दसामग्रयाः प्रत्यक्षसामग्रयाश्च सत्त्वे प्रत्यक्षं जायता मिति वक्तव्यम् । घटव भूतलमित्येतादृशप्रत्यक्षसामग्रीसद्भावे तादृशप्रत्यक्षेच्छायाञ्च सत्यां पटवद भूतलमित्येतादृशप्रत्यक्षसामग्रचाश्चावस्थानम् । न तु तादृशप्रत्यक्षेच्छा चास्ति । तत्र घटवद्भूतलं पटवद्भूतलमित्येतादृशसमूहाल- .
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy