________________
विभक्त्यर्थनिर्णये ।
पि धात्वर्थफले संसर्गविशेषावच्छिन्नाधेयत्वेन सम्बन्धेनाश्रयत्वस्यान्त्रयः सुधौभिरूहनीयः । एवं कर्तृकर्मणोराश्रयत्वेनाविशेषेऽपि धात्वर्थस्य व्यापारास्याश्रयः कर्ता फलस्याश्रयः कर्मेति विशेषः सम्भवति । नन्वेवं गम्यर्थस्य स्पन्दस्याश्रयत्वेन कर्तृत्वमिव तोदृशस्य संयोग घ्याश्रयत्वेन कर्मत्वमपि चैत्रस्य स्यात् तथा च चैत्रो गमिकतिव्यवहारश्चैव श्वैत्रं गच्छतीति द्वितीया तिचे नि चेत् न परया ऋर्टसंज्ञया कर्मसंज्ञाया बाधात्कर्मव्यवहाराप्रसक्तः । कर्मसंज्ञाया एव द्वितीयाप्रयोजकत्वात्कर्मसंज्ञाविरहे द्वितीयाया अप्रसक्तेश्च न च कर्तृ संज्ञया कथं कर्मसंज्ञाबाध इति वाव्यम् । या पराऽनवकाशा चेति परिभाषणात् श्रत एव अपादानसं प्रदान करणाधारणकर्मणां कर्तु श्वोभयसंप्राप्तौ परमेव प्रवर्तते इति पठन्ति । एवं कर्मगतस्य फलस्य विवक्षायां प्रधानीभूतधात्वर्थाश्रयत्वेन कर्मण: कर्तृत्वमेव यथा पच्यते त गडुलः स्वयमेव एवमपादानत्वस्य विभागादेर्धातुना प्राधान्येन बोधनेऽपादानस्य कर्तत्वमेव यथा गिरिरपसरतादौ । एवं संप्रदान करणाधिकरणानामपि कर्तत्वमाकलनीयमित्याजः । तार्किकास्तु श्राश्रयो न द्वितीयावाच्यः । आश्रयतात्वविशिष्टस्याश्रयस्य शक्यतावच्छेदकत्वे गौरवात् तेन रूपेण वाच्यत्वासम्भवात् । न चाश्रयत्वमखण्ड ङ्गगनाभावाद्यात्मकं तस्य निरवच्छिन्नशक्यतावच्छेदकं सम्भवतीति वाच्यम् । जातीतरस्य निरवच्छिन्नावच्छेदकत्वासंभवात् । अन्यथा पृथिवप्रादिचतुष्टयान्यतमत्वस्वरूपस्याखण्डोपाधेद्रव्यारम्भकताया
७९