________________
पञ्चमीविभक्तिविचारः ।
न्दनविशेषणतयोपस्थितस्यापि विभागस्य प्रधानव्यापारे साचाद्दिशेषणत्वात् दुव्हिजन्या विभागोपस्थितिस्तन्व मित्थं च त्यजेः संयोगावाचकतया तदर्थं न पञ्चम्यर्थविभागस्यान्वय इति प्रधानव्यापारें साक्षाद्विशेषणतैव विभागस्य व्यजिनोपस्थापनान्न तत्र पञ्चम्यर्थानुयोगित्वस्यान्वय इति तरोस्त्यजतौति न प्रयोगः प्रधानव्यापारे साक्षाद विशेषणौभूत विभागवाचकधातुजन्योपस्थितिः पचम्यर्थानुयोगित्वान्वये तन्त्रमिति तु फलितार्थ: अतस्तरोः त्यज्यत इति कर्माख्यातप्रयोगोऽपि निरस्तः कमख्याते विभागस्य व्यापाराविशेषणतया भानेऽपि त्वजेर्विशेषणौभूतविभागवाचकत्वात् प्राचां मते धातोः फलावच्छिन्नव्यापारार्थकतया नव्यानां फलव्यापारीभयवाचकतया विभागस्य गमनादिव्यावर्त्तकत्वरूपं वि शेषणत्वं त्यज्यर्थ व्यापारे सर्वथैवोपेयमिति । नन्वेवं विभागव्यापारोभयवाचकस्यापसरत्यादेर्योगे सदसोऽपसरतौतिप्रयोगो न स्यात् धातोर्विशेषणौभूतविभागवाचकतया तदर्थे विभागे पञ्चम्यर्थानुयोगित्वान्वयाप्रसक्तेरिति चेन्न । धातोर पसरत्या देविभागावाचकत्वात् किं तु अपपूर्वकस्य सरत्यादेः पूर्वदेशान्यदेश संयोगफलकस्पन्दवाचकत्वमिति धात्वर्थान्तर्भूत कर्मकत्वादकर्मकत्वमिति तदर्थे स्पन्दे पञ्चम्यर्थविभागान्वयसम्भवात् भवति सदसोऽपसरतौत्यादिकः प्रयोगः संयोगफलकधातुयोगे पञ्चमौ यथा वृचात्पतति गच्छति वा पत्नमित्यादौ पतेरधोदिगवच्छिन्नसंयोगफलको गमेस्तु संयोगफलको व्यापारोऽर्थः उपत्यकाभ्यो गिरिमधिरोहत्या
३३२