SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । २८१ निपितावच्छेदकतायाः प्रतियोगित्वेन संबन्धेन चान्वयः देवदत्तस्य देवदत्तविशेष्यताकोत्कर्षप्रकारकज्ञानं भववितीच्छायां ज्ञाननिष्ठोद्देश्यतानिरूपितसमवेतत्वसंसर्गावच्छिन्नदेवदत्तनिष्ठावच्छेदकताप्रतियोगित्वं तथाविधोद्देश्यतानिरूपितविशेष्यतानिष्ठावच्छेदकतानिरूपितदेवदत्तनिष्ठावच्छेदकताप्रतियोगित्वं चेति संबन्धइयं निराबाधमिति । अन्य विशेष्यकोल्कर्षप्रकारकदेवदतज्ञानस्य देवदत्तविशेष्यकोत्कर्षप्रकारकान्यदीयज्ञानस्य चेच्छायां न तथाप्रयोगः संबन्धहयेनेच्छायामन्वयाभावात् यत्र च श्लाघति: सकर्मकस्तेन पण्डिताय नरपतिः श्लाघत इति प्रयोगस्तत्र समवेतत्वसंसर्गावच्छिन्नतादृशज्ञानोद्देश्यतावच्छेदकताप्रतियोगित्वेन संवन्धेनैव चतुर्थ्यर्धेच्छोयां प्रकत्यर्थस्य तादृशज्ञानरूपफले प्रकृत्यर्थविशेषितस्य हितोयार्थस्य विशेष्यत्वस्य विशेष्यत्वसंबन्धावच्छिन्नाधयत्वस्य वाऽन्वय इति एवं देवदत्ताय निन्हुते इत्यादौ कुतिफले दर्शने चतुर्थ्यर्थस्येच्छाया इच्छायां तु विशेषणतासंबन्धाबच्छिन्नाधेयत्वसंसर्गावच्छिन्नाया अदर्शननिष्ठोद्देश्यतावच्छेदकतायाः प्रतियोगित्वेन संबधेन प्रकृत्यर्थस्यान्वयः अधीरतां जनाय निन्हुत इत्यबादर्शनप्रतियोगिनि दर्शने फलैकदेशे निन्हवे दर्शनमभावश्चेत्युभयार्थकत्वे फले दर्शने हितोयार्थस्य विशेष्यत्वस्य तत्संबन्धावच्छिन्नाथेयत्वस्य वाऽन्वयः वस्तुतः सतोऽसत्त्वेन प्रतिपादनं निन्हुतिरतो गगनं निरहुत इति न प्रयोगः तथा च सत्त्वप्रकारकप्रतिपत्त्यनुकूलो व्यापारो न्हुतेरर्थः अत एव जीप्स्यमानता चतुर्थीप्रकृत्यर्थस्य संपाते एव
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy