SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ विभक्तवर्थनिर्णये कथमुक्तान्यतमत्वं कारकत्वमिति । न च धूवाद्यन्यतमत्वेनापादानादिं निरुच्य तावदन्यतमत्वं कारकत्वं निर्वाच्यमिति वाच्यम् । कतिपयापादानादिकं जानतां सकलापादानादिकमजानतां ध्रवादी कारकत्त्वग्रहानापतेः । प्रतियोगित्ज्ञानं विना यावदपादानादिभेदस्यैव दुर्गहत्वेन तदन्यतमत्वस्य नितरां दुर्ग हत्वात् । न च तावदपादानादित्तिगगनाभावादिव्यक्तिरेवान्यतमत्वं तस्य यत्किंचिदपादानादिग्रहेऽपि ग्रहसंभवादिति वाच्यम् । गगनाभावादिव्यतेस्तावदपादानादित्तित्ववैशिष्ट्योतौबौजाभावात् सर्वेषामेव कदा चित्त चित्कारकत्वेन तावहुत्तिगगनाभावादेरव्यावर्तकत्वात् व्याघ्रादिभेतीत्यादौ यादृशस्य हेतुत्वादेरपादानत्वं तादृशहेतुत्वादेर्व्याघ्रस्य भयमित्यादौ षष्ठार्थत्वात् । एतेन तावदन्यतमत्वं कारकपदप्रवृत्तिनिमित्तमिति कारकपदवाच्यत्वमेव कारकत्वमिति निरस्तम् तावदन्यतमत्वस्य निर्वहनासहत्वादिति चेत् । उच्यते । नामार्थान्वयप्रयोजकतानवच्छेदकीभूतक्रियान्वयितावच्छेदकधर्मवत्वे सति पदोन्तरासमभिव्याहृतमुबर्थत्वं कारकत्वं कान्तस्य बस्यतौल्यादौ षष्ठयर्थ वारणाय भूतान्तं धर्मविशेषणम् । न च नामार्थान्वयाप्रयोजकत्वमेव तद्दारणार्थमस्तु किमनवच्छेदकत्वविवचयेति वाच्यम् व्याधाविभेतीत्यादौ हेतुतादेः कारकस्याव्यापनात् व्याघ्रस्य भयमित्यादौ नामार्थान्वयिवात् अनवच्छेदकत्वविवक्षणे तु तादृशस्य हेतुतात्वादेः सत्वान्नाव्याप्तिः तावतापि दर्शित षष्ठवर्थे ऽतिव्याप्तिः तत्व हेतुतादेः संबन्धत्वेन रूपेणान्वयात् संबन्धत्वस्य निरुतानवच्छेदकत्वविरहेऽपि तादृशस्य रूपान्तरस्य सत्वा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy