________________
द्वितीयाविभक्तिविचारः ।
सर्वपचेऽनुपपत्तेराधेयत्वस्य द्वितीयार्थत्वं युज्यत इति चेत् एवमेवैतत् श्रत एव परसमवेतधात्वर्थफल शालित्वं कर्मत्वमिति तान्त्रिका वदन्ति । तेषामयमाशयः । द्वितीयाकाङ्क्षाप्रयोजकतावच्छेदकधर्मवत्वं सकर्मकत्वं तादृशो धर्मों नानाविधः । पचिगम्यादीनामधिकरणाविशेषितफल व्यापारोभयवाचकत्वं तथा शब्दायत्यादेरधिकरणविशेषितफलवाचकत्वान्न द्वितीयाऽऽकाङ्क्षा रमत्यादेर्द्वितीयार्थभेदान्वययोग्यार्थकत्व बिरहान्त्र द्वितीयाssकाङ्क्षा यत्यादीनां व्यापारमाववाचकतया फलावाचकत्वान्न द्दितीयाऽऽकाङ्क्षा शौस्यासामधिपूर्वकत्वं तथा वसस्तु उपान्वध्याङन्यतमपूर्वकत्वं तथा अधिकरणविशेषितफलबाचकानां शब्दायत्या दोनां हितौयार्थभेदान्वयायोग्य र्थकानां रमत्यादीनां फलावाचकानां यत्यादीनां च कालादिवाचक शब्दोत्तर द्वितीयाभिन्नहितोयानिराकाङ्गत्वखरूपाकर्मकत्वेन व्यवक्रियमाणानां - जन्तत्वं तथा न तु शाब्दिकोक्तं सकर्मकत्वमधिशीङादावकर्मकणिजन्ते चाव्याप्तेः । एवं धाकाङ्क्षद्दितौयार्थत्वं कर्मत्वं तदपि नानाविधं अधिशोथासादीनामाधारत्वम् अकर्मक णिजन्तानामणिजन्तखकर्ट - वं पचिगम्यादीनां परसमवेत धात्वर्थफलशालित्वम् इदं कट त्वं च गतिबुध्यशनार्थकानां शब्दकर्मकाणां च णिजन्तानां तत्र धात्वर्थफलस्य धातुना लाभात् परसमतत्वं द्वितीयार्थः तंत्रापि परत्वं भेदः समवेतत्वमायत्वं खण्डशो द्वितीयार्थः तत्र प्रातिपदिकार्थ आधेयत्वे निरूपितत्वसंसर्गेण भेदे च तत्तद्यक्तित्वावच्छिन्न
-