SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥५३॥ ततोऽसौ तव कुमंत्री च मयोपायं कृत्वाग्नौ क्षिप्तोऽस्ति, यतो व्याधिर्विषनुमो दुष्टात्मा पुमांश्च येन केनापि प्रकारेण शिधं |* श्रीहरिछेद्यः, त्वं च मम नाथोऽसि तेन त्वां कथमग्नौ क्षेपयामि ? चेत्त्वामहमनौ प्रविशन्तं न निवारयामि तदाह स्वामिद्रोहीस्यां, बलकथा॥ तत् श्रुत्वा राजा चिन्तयति ‘हा दुष्टं कृतं मया, अनेन मम सर्व चरित्रं ज्ञातं.' इति ध्यात्वा राजा लज्जया यावदधोमुखीभूत| स्तावद्धरिबल उवाच 'हे स्वामिन् ! त्वं चिंतां मा कुरु ? अहं तव सेवकोऽस्मि, त्वं च मम नाथोऽसि, इत्यादिमिष्टवचनैः स राजानं संतोषयामास. राजापि हृष्टः सन् हरिवलं पृच्छति 'भो महाभाग ! तवेशी शक्तिः कथं जाता, तदा हरिबलेन सर्वापि जलधिदेववार्ता | तस्मै निवेदिता. नृपतिरपि तद्वार्ती श्रुत्वा विस्मितः सन् चिन्तयति, 'अरे मयाम्य बहवोऽपराधाः कृताः, परमनेन महात्मनाहं मरणादपि रक्षितः, अहो एष मम महोपकारी वर्त्तते', एवं हरिबलस्य प्रशंसां कुर्वन् सर्वलोकयुतो राजा निजगृहे समागतः, हरिबलस्य परोपकारतां स्मरन तस्मै निजपुत्री दत्वा हर्षेणाऽसौ तत्पाणिग्रहणमहोत्सवं चकार, करमोचनावसरे च स्वकीय सर्व राज्यं हरिबलाय वितीर्य स्वयं वैराग्यवासितमानसः संसारासारतां विज्ञाय सुगुरुसमीपे दीक्षा जग्राह. ततोऽसौ राजर्षिः शुद्धचारित्रपालनेन सकलकर्मक्षयं कृत्वा केवलज्ञानं प्राप्य भव्यजीवान् प्रतिबोध्य सिद्धिं गतः. इतो हरिबलो राजा न्यायेन राज्यं पालयति, ___ अथ कांचनपुरराज्ञा निजपुत्र्याः शुद्धयर्थं सर्वत्र स्वपुरुषाः प्रेषिताः, तेर्ह रिवलस्य वृत्तान्तं ज्ञात्वा तत्स्वरुपं राज्ञे निवेदित ततो राज्ञा ज्ञातं यन्मम पुत्री येन हरिबलेन परिणीता स महादाता शूरवीरश्च श्रूयते. यतः * ॥५३॥ 姜麗张继继器臻臻张继聯藥藥继樂樂器藤蹤器藥藥藥器鑑聽器聲器
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy