SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥४८॥ श्रीहरि| बलकथा ॥ 经验将带带带聯強聯號號號染號器藤茶器聯聯柴聯號张晓帶柴柴带一路 भवतां निमंत्रणार्थमहं प्रेषितोऽस्मि, भवतां च तत्रागमनेन स मे राजा श्लाघनीयो भविष्यति.' इति मया विज्ञप्तो विभीषण उवाच 'भो पुरुष ! त्वं याहि ? अहं तु स्वयमेव विवाहोपर्यागमिष्यामि.' इत्युक्त्वा भवदभिज्ञानार्थ स्वचंद्रहासखड्गस्तेन मम करे समर्पितः, ततस्तेन स्वविद्याबलेनाहमत्रानीय मुक्तः, इत्युक्त्वा हरिबलेन स खड्गो नृपहस्ते मुक्तः, तादृकन्याखड्गाभिज्ञानादिना राज्ञा तत्सर्व सत्यं ज्ञातं, चिन्तितं च मम वचनेनासौ भस्मसाजातः, अतोऽसौ मया माननीयः, ततो राजा गाढस्वरेणावददहो महाप्राज्ञः सौभाग्यवान् स्वामिकृत्यकरणे दक्षोऽसौ हरिबलोऽद्यतो मम परममित्रं, इति प्रशस्य सत्कारपूर्वकं तं गृहे प्रेषयामास. ___अथ राजा कामतप्तोऽपि तस्य लोकोत्तरं चरित्रं दृष्ट्वा मंदरागो जातः. अथैकदा भार्याभ्यां निवारितोऽपि हरिबलो राजानं भोजनार्थ निजगृहे निमंत्रयामास. भोजनसमये च राजा हरिबलगृहे समागतः, वसंतश्रीकुसुमश्रीभ्यां च निजनवनववेषं विधाय राजानं परिवेष्य निजचातुरी दर्शिता, तद्दर्शनेन पुनरपि पापात्मा राजा कंदर्पपीडितचिंतयति एतावत्यः स्त्रियोऽनेन कुतः प्राप्ताः? ईदृग्भार्या मम गृहेऽपि न संति. अथ भोजनानंतरं राजा स्वावासे समागत्य मंत्रिणं कथयामास 'भो मंत्रिन् ! हरिबलस्य गृहे कति भार्याः संति ? दुष्टमंत्रिणोक्तं स्वामिस्तस्य गृहे द्वे एव भार्ये स्तः, परं ताभ्यां नवनववेषं विधाय भवद्भ्यः परिवेषितं.' तत् श्रुत्वा मदनपीडितो राजा मंत्रिणं जगाद 'भो मंत्रिन् ! त्वं निजबुद्धया हरिबलस्य मारणोपायं विचिंतय ?' तत् श्रुत्वा स दुरात्मा मंत्री वदति 'हे स्वामिन्नग्निप्रविष्टः कदापि कोऽपि न जीवति, तेनासौ यमनिमंत्रण मिषेणानौ क्षिप्यते, राजावदत् 'हे 子涉导带能继帶跳跳跳跳跳器器端器樂器跳跳跳跳樂器端端端樂蒂台幣 ॥४८॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy