SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आरामशोभा कथा श्री वर्द्धमान है। वित्रं ब्राह्मणीसहितं मम देशानिष्कासयचं ?' सुभटैरपि तथैव कृतं. जिन देशना अथ तयोरतिस्नेहेन विषयसुखं भुंजानयोः सुखेन कियान् कालो गतः. अन्यदा नृपपार्श्वे स्थितागमशोभेति वदति ॥२२॥ 'स्वामिन्नहं पूर्व दुःखिता कथं संजाता ? अधुना च कथं मुखिनी जाता? अतोत्र पुण्ययोगेन चेत्कोऽपि ज्ञान्येति तदा तत्पृच्छामि.' अथान्यदोद्यानपालः प्रगे प्रमुदितः समागत्य नरनाथं विज्ञपयति 'हे स्वामिन्नंदनवनोद्याने श्रुतज्ञानी पंचशतसाधुयुतो | नरविद्याधरः पूजितः श्रीवीरभद्रसरिः समवसृतोऽस्ति'. तत् श्रुत्वा हृष्टो राजा तं प्रीतिदानं दत्वा विसर्जयामास. ततो राजा राज्ञीयुतो बने गत्वा मूरिं त्रिःप्रदाक्षिणीकृत्य वन्दनपूर्वकं यथास्थानमुपविष्टः, मूरिपि धर्मोपदेशं कथयामाम१ धम्मेण सुहसंपया सुभगया नीरोगया आइया। वित्तं देहरमाउअं इह भवे जम्मो सुरम्मे कुले ॥ | २ दिव्वं स्वेमणुव्वजुव्वणभरोसत्ति सरीरे जगे। कित्तो होइ सुधम्मओ परभवे सग्गापवग्गा सिरी॥१॥ इति धर्मदेशनान्ते आरामशोभा पृच्छति 'हे भगवन् ! मया कीडग कर्म कृतं ? ममोपरि चारामाछत्राकारेण भूत्वा कथं स्थितः ? मरिरुवाच हे भद्रे! श्रुयतां? अस्मिन् भरतक्षेत्रे चंपानामपुरी विद्यते, तस्यां वैश्रमणसदृशो धनाढ्यः कुलधराभिधश्रेष्ठी बभूव, तस्य च कुलानंदाभिधा १ धर्मेण सुखसंपदा सुभगता नीरोगता आहेयता वित्तं देहमायुष्य इह भये जन्म सुरम्ये कुले। २ दिव्य रूपमनुपमयौवनभरो शक्ति शरीरे जने कीर्तिर्भवति सुधर्मतो परभवे स्वर्गापवर्गा श्रियः। 继聯晓晓晓晓晓晓晓晓盛柴柴柴柴柴柴柴晓晓晓晓晓晓晓晓晓晓得 4柴柴柴柴柴柴密柴柴柴柴柴柴柴柴柴榮恭號张梁榮錦聯聯染器:聯強 ॥२२॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy