SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ चण्डरुद्राचार्यशिष्यदृष्टान्तः । सवयस्योऽथ, सोऽव्रजत्सूरिसन्निधौ ॥ अब्रवीत्तं च वन्दित्वा, सोपहासं कृताञ्जलिः ॥११॥ गृहव्यापारतो भग्नो, लग्नोऽस्मि त्वत्पदाब्जयोः । तत्प्रव्राजय मां स्वामिस्तिष्ठामि ससुखं यथा ॥१२॥ सहास्यामिति तद्वाचं, श्रुत्वा कोपातिरेकतः । सूरिर्जगौ व्रतेच्छुश्चेत्तदा भस्मानय द्रुतम् ॥१३॥ ततस्तत्सुहृदैकेनानीते भस्मनि साधुराट् । तं गृहीत्वा स्वबाहुभ्यां, लोचं कृत्वा ददौ व्रतम् ॥१४॥ तद्विलोक्यविषण्णास्तद्वयस्यास्तमथाभ्यधुः । मित्र ! सद्यः पलायस्व, धाम यामो वयं यथा ॥१५॥ आसन्नसिद्धिकः सोऽथ, लघुकर्मेत्यचिन्तयत् । कथं गच्छाम्यहं गेहं, स्ववाचा स्वीकृतव्रतः ॥१६॥ प्रमादसङगतेनापि, या वाक् प्रोक्ता मनस्विना । सा कथं दृषदुत्कीर्णाक्षरालीवाऽन्यथा भवेत् ॥१७॥ नर्मणापि मया लब्धं, रक्षणीयं ततो व्रतम् । जहाति धुमणि को हि, विनायासमुपस्थितम् ॥१८॥ ध्यात्वेति भावसाधुत्वं, स सुधीः प्रत्यपद्यत । यथास्थानं ततो जग्मुस्तद्वयस्या विषादिनः ॥१९॥ विनेयोऽथावदत्सूरिं, भगवन् ! बन्धवो मम । श्रामण्यं मोचयिष्यन्ति, तद्यामोऽन्यत्र कुत्रचित् ॥२०॥ गच्छो महानसौ गच्छन्, प्रच्छन्नमपि यज्जनैः । ज्ञायते तद् द्वयोरेवाऽऽवयोर्गमनमर्हति ॥२१॥ सूरिः प्रोवाच यद्येवं, तदाऽध्वानं विलोकय । यथा रजन्यां गच्छामः, सोऽप्यालोक्य समाययौ ॥२२॥ प्रतस्थेऽथ निशीथिन्यां, सूरिनूतनशिष्ययुक् । पुरो याहीति गुरुणा, चोक्तः शिष्यो ययौ पुरः ॥२३॥ अपश्यन्निशि वृद्धत्वात्, स्थाणुना स्खलितो गुरुः । वेदनाविह्वलो जज्ञे , ज्वलद्रोषभराकुलः ॥२४॥ हा दुष्टशिष्य ! सन्मार्गो, न व्यलोकीति विब्रुवन्, दण्डेन शिष्यं शिरसि, कृतलोचे जघान सः ॥२५॥ तत्प्रहारस्फुटन्मौलिनिर्गच्छद्रुधिरोऽपि सः । न व्यब्रवीन्नाप्यकुप्यत्, प्रत्युतैवमचिन्तयत् ॥२६॥ स्वगच्छमध्ये ससुखं, तिष्ठन्तोऽमी महाशयाः । अधन्येन मया दुःखभाजनं विहिता हहा ! ॥२७॥ ગયો. વંદન કરી મજાક કરી દીક્ષા માટે વિનંતિ કરી. સૂરિજી ગુસ્સે થઈ બોલ્યા - “રાખ લાવ'. તેનો એક મિત્ર રાખ લાવ્યો. સૂરિજીએ લોન્ચ કરી દીક્ષા આપી. આ જોઈ તેના મિત્રો ભાગી ગયા. તે શ્રેષ્ઠિપુત્ર લઘુકર્મી હતો. તેણે વિચાર્યું – “દીક્ષા લઈને હવે ઘરે शी रीते 16 ?' तो सूरिछने , 'भगवंत ! भा२। स॥ भने घरे १४. भाटे આપણે બીજે જતા રહીએ.' સૂરિજી બોલ્યા, “રસ્તો જોઈ આવ.' શિષ્ય રસ્તો જોઈ આવ્યો. રાત્રે ગુરુ-શિષ્ય બન્નેએ વિહાર કર્યો. અંધારાને લીધે ગુરુને દેખાતું નથી. તેથી ઠુંઠા સાથે અથડાયા. એટલે ગુસ્સે થઈ શિષ્યના લોચવાળા માથા ઉપર દાંડો માર્યો. તેના માથેથી લોહી નીકળ્યું. છતાં તે કંઈ બોલ્યો નહીં કે ગુસ્સે ન થયો. ઉર્દુ તેણે વિચાર્યું,
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy