SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्रकारान्तरेण विनयभेदाः । '१ अब्भासऽच्छणं छंदाणुवत्तणं कयपडिकिई तह य । कारि अनिमित्तकरणं दुक्खत्तगवेसणं तह य ॥१॥ तह देसकालजाणण सव्वत्थेसु तह य अणुमई भणिया । उवयारिओ उ विणओ एसो भणिओ समासेणं ॥२॥ तत्र 'अब्भासऽच्छणं' ति सूत्राद्यर्थिना नित्यमेवाचार्यस्याभ्यासे प्रत्यासन्ने स्थातव्यम्, तथा छन्द: अभिप्राय गुरूणामनुवर्त्तनीयः, तथा कृतप्रतिकृतिः कृते भक्तादिना उपचारे प्रसन्ना गुरवः प्रतिकृतिं - प्रत्युपकारं सूत्रार्थादिदानतो मे करिष्यन्ति, न नामैकैव निर्जरेति भक्तादिदाने गुरोर्यतितव्यम्, तथा कार्यनिमित्तकारणम्, कार्यं श्रुतप्रापणादिकम्, निमित्तं - हेतुं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः, विशेषेण तस्य विनये वर्त्तितव्यम्, तदनुष्ठानं च कर्त्तव्यम्, यद्वा कारितेन सम्यक्सूत्रार्थमध्यापितेन पुनस्तन्निमित्तं करणं विनयस्य विधानं कारितनिमित्तकारणम्, गुरुणा सम्यक् सूत्रादिकं पाठितेन विनेयेन विशेषतो विनये वर्त्तितव्यं तदुक्तार्थानुष्ठानं च कर्त्तव्यमिति भावः, तथा दुःखार्त्तस्य- दुःखपीडितस्य गवेषणम् - औषधादिना प्रतिजागरणं दुःखार्त्तगवेषणम्, पीडितस्योपकारकरणमित्यर्थः, तथा देशकालज्ञानमवसरज्ञतेत्यर्थः, तथा सर्वार्थेषु गुरुविषयेष्वनुमतिःआनुकूल्यम् अथवा द्विपञ्चाशद्भेदो विनयः, स च पञ्चषष्टितमद्वारे वक्ष्यते ।' - = ७३ અભ્યાસાસન = સૂત્ર વગેરે મેળવવાની ઇચ્છાવાળાએ હંમેશા આચાર્યની નજીક બેસવું, છન્દોઽનુવર્તન ગુરુની ઇચ્છાને અનુસરવું, કૃતપ્રતિકૃતિ = માત્ર નિર્જરાના ભાવથી નહીં પણ આહાર વગેરેની ભક્તિ કરવાથી ગુરુ પ્રસન્ન થઈને સૂત્રાદિ આપીને મારી ઉપર પ્રત્યુપકાર કરશે એવા ભાવથી ગુરુની સેવા કરવી, કારનિમિત્તકારણ ‘આમણે મને ભણાવ્યો છે' એવા હેતુથી વિશેષથી તેમનો વિનય કરવો - ગુરુએ જેને ભણાવ્યો હોય એવા શિષ્યે વિશેષથી ગુરુનો વિનય કરવો જોઈએ અને તેમનું કહ્યું કરવું જોઈએ, દુઃખાત્તુંગવેષણ = દુ:ખી ઉપર ઉપકાર કરવો, દેશ-કાળ જાણવા = અવસર જાણવો, બધી બાબતમાં ગુરુને અનુકૂળ થવું. અથવા વિનય પર પ્રકારે છે. તે ૬૫મા १. अभ्यासासनं छन्दोऽनुवर्त्तनं कृतप्रतिकृतिः तथा च । कारितनिमित्तकरणं दुःखार्त्तगवेषणं तथा च ॥ १ ॥ तथा देशकालज्ञानं सर्वार्थेषु तथा च अनुमतिः भणिता । औपचारिकश्च विनयः एषः भणितः समासेन ॥२॥ — =
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy