SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् वाऽऽधारेऽमावस्या |५|१|२१॥ अमापूर्वाद् वसतेराधारे 'घ्यण्' धातोर्वा ह्रस्वश्च' निपात्यते । अमा वस्या, अमावास्या ||२१|| संचाय्य - कुण्डपाय्य - राजसूयं क्रतौ |५|१|२२ ॥ एते क्रतावर्थे 'घ्यणन्ता निपात्यन्ते । संचाय्यः, कुण्डपाय्यः, राजसूयः क्रेतुः ॥२२॥ प्रणाय्यो निष्कामा - ऽसंमते ।५।१।२३॥ प्राद् नियो 'घ्यणायादेशी' शिष्य वीरो वा ॥ २३॥ स्यातां, निष्कामेऽसंमते चार्थे । प्रणाय्यः धाय्या - पाय्य - सान्नाय्य - निकाय्यमृङ्-मान- हवि - र्निवासे ।५।१।२४ ॥ एते ऋगादिषु यथासंख्यं 'घ्यणन्ता' निपात्यन्ते । धाय्या ऋक्, पाय्यं मानम्, सान्नाय्यं हविः, निकाय्यो निवासः ||२४|| परिचाय्योपचाय्या -ऽऽनाय्य - समूहा - चित्यमग्नौ ।५।१।२५॥ एतेऽग्नी निपात्यन्ते । परिचाय्यः, उपचाय्यः, आनाय्यः, समूहाः, चित्यो वाऽग्निः ||२५|| याज्या दानर्चि | ५|१|२६ ॥ यजेः करणे दानर्चि 'घ्यण्' स्यात् । याज्या ||२६|| तव्या - Sनीयौ 1५1१/२७॥ एतौ धातोः स्याताम् । कर्त्तव्यः करणीयः ||२७|| , य एच्चाऽऽतः | ५|१|२८| स्वरान्ताद् धातो - 'र्य:' स्यात्, आत 'एच' । चेयम्, नेयम्, देयम्, धेयम् ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy