SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् शकि-तकि-चति-यति-शसि-सहि-यजि-भजि-पवर्गात् 1५1११२९॥ एभ्यः पवर्गान्ताच्च 'यः' स्यात् । शक्यम्, तक्यम्, चत्यम्, यत्यम्, शस्यम्, सह्यम्, यज्यम्, भज्यम्, तप्यम्, गम्यम् ॥२९॥ यमि-मदि-गदोऽनुपसर्गात् ।५।१।३०॥ एभ्योऽनुपसर्गेभ्यो 'यः' स्यात् । यम्यम्, मद्यम्, गद्यम् । अनुपसर्गादिति किम् ? आयाम्यम् ॥३०॥ चरेराङस्त्वगुरौ ।५।११३१॥ अनुपसर्गाच्चरेराङ्पूर्वात् तु अगुरौ 'यः' स्यात् । चर्यः, आचर्यो देशः ।। अगुराविति किम् ? आचार्यः ॥३१॥ वर्योपसर्या-ऽवय-पण्यमुपेयर्तुमती-गी-विक्रेये ।५।१।३२॥ एते उपेयादिषु यथासङ्ख्यं 'यान्ता' निपात्यन्ते । वर्या कन्या, उपसर्या गौः, अवद्यं गर्हाम, पण्या गौः ॥३२॥ स्वामि-वैश्येऽर्यः ।५।१३३॥ अर्तेः स्वामि-वैश्ययो-'र्यः' स्यात् । अर्यः स्वामी वैश्यो वा, आर्योऽन्यः ॥३३॥ वी करणे ।५।११३४॥ वहेः करणे 'यः' स्यात् । वा शकटम् ॥३४॥ नाम्नो वदः क्यप् च 1५1१1३५॥ अनुपसर्गानाम्नः पराद् वदेः 'क्यप-यो' स्याताम् । ब्रह्मोद्यम्, ब्रह्मवद्यम् । नाम्न इति किम् ? वाघम् । अनुपसर्गादित्येव- प्रवाधम् ॥३५॥ __ हत्या-भूयं भावे ।५।१॥३६॥ अनुपसर्गानाम्नः परौ हत्या-भूयौ भावे 'क्यबन्ती' साधू स्तः । ब्रह्महत्या,
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy