SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अभयङ्करः ॥१०॥ प्रिय-वशाद् वदः ।५।१।१०७॥ आभ्यां कर्मभ्यां पराद् वदः 'खः' स्यात् । प्रियम्बदः, वशम्वदः ॥१०७॥ द्विषन्तप-परन्तपौ ।५।१।१०८॥ द्विषत्पराभ्यां कर्मभ्यां पराण्ण्यन्तात् तपेः खो इस्वो द्विषतोऽमश्च निपात्यते ॥ द्विषन्तपः, परन्तपः ॥१०८॥ परिमाणार्थ-मित-नखात पचः 1५1१1१०९॥ प्रस्थादि-मित-नखेभ्यः कर्मभ्यः परात् पचेः 'खः' स्यात् । प्रस्थम्पचः, मितम्पचः, नखम्पचः ॥१०९॥ कूलाऽप्र-करीषात् कषः ।५।१।११०॥ एम्यः कर्मभ्यः कषेः 'खः' स्यात् । कूलाषा, अभ्रषा, करीषषा ॥११०॥ सर्वात् सहश्च ।५।११११॥ सर्वात् कर्मणः परात् सहेः कषेश्च 'खः' स्यात् । सर्वसहः, सर्वकषः ॥१११॥ भृ-वृ-जि-तू-तप-दमेश्च नाम्नि ।५।१११२॥ कर्मणः परेभ्य एभ्यः सहेश्च संज्ञायां 'खः' स्यात् । विश्वम्भरा भूः, पतिश्वरा कन्या, शत्रुजयोऽद्रिः, रथन्तरं साम, शत्रुन्तपो राजा, बलिन्दमः कृष्णः, शत्रुसहो राजा । नाम्नीति किम् ? कुटुम्बमारः ॥११२॥ पारेर्धर्च 1५1१1११३॥ कर्मणः पराद् धारेः संज्ञायां 'खः' स्यात्, धारेश्च 'धर् । वसुन्धरा भूः ॥११३॥ पुरन्दर-भगन्दरौ ।५।१।११४॥ एतौ संज्ञायां खान्तौ निपात्येते । पुरन्दरः शक्रः, भगन्दरो व्याधिः ॥११४॥ वाचंयमो व्रते 1५1१1११५॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy