SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् स्यात्, चेद् युवन्-पक्वा-ऽहन्सम्बन्धी न स्यात् । व्रीहिवापिणी, व्रीहिवापिनौ; माषवापाणि, माषवापानि; व्रीहिवापेण, व्रीहिवापेन । युवादिवर्जनं किम् ? आर्ययूना, प्रपक्वानि, दीर्घाह्नी शरत् ।।७५॥ कवर्गकस्वरवति ।२।३७६॥ पूर्वपदस्थाद् रादेः परस्य कवर्गवत्येकस्वरवति चोत्तरपदे सति, उत्तरपदान्तस्य नागमस्य स्यादेश्व 'नो ण्' स्यात्, न चेदसौ पक्वस्य । स्वर्गकामिणौ, वृषगामिणौ; ब्रह्महणौ, यूषपाणि । अपक्वस्येत्येव - क्षीरपक्वेन ॥७६॥ अदुरुपसर्गान्तरो -हिनु-मीनाऽऽनेः ॥२॥३७७॥ दुर्व|पसर्गस्थादन्तः शब्दस्थाच रादेः परस्यैषाम् 'नो ण् स्यात् । ति णोपदेशा धातवः प्रणमति, परिणायकः, अन्तर्णयति । हिनु- प्रहिणुतः । मीना- प्रमीणीतः । आनि-प्रयाणि । अदुरिति किम् ? दुर्नयः ॥७७॥ नशः शः २१३१७८॥ अदुरुपसर्गान्तःस्थाद् रादेः परस्य नशः शन्तस्य 'नो ण्' स्यात् । प्रणश्यति, अन्तर्णश्यति । श इति किम् ? प्रनक्ष्यति ॥७॥ ने-मा-दा-पत-पद-नद-गद-वपी-वही-शम् वाति-द्राति-प्साति-स्यति-हन्ति-देग्धौ ।२।३१७९॥ अदुरुपसर्गान्तःस्थाद् रादेः परस्योपसर्गस्य ने! माडादिषु परेषु 'ण' स्यात् । प्रणिमिमीते, परिणिमयते । प्रणिददाति, परिणिदयते, प्रणिदधाति । प्रणिपतति । परिणिपद्यते । प्रणिनदति । प्रणिगदति । प्रणिवपति । प्रणिवहति । प्रणिशाम्यति । प्रणिचिनोति । प्रणियाति । प्रणिवाति । प्रणिद्राति । प्रणिप्साति । प्रणिस्यति । प्रणिहन्ति । प्रणिदेग्धि । अन्तर्णिमिमीते ॥७९॥ अक-खायषान्ते पाठे वा ।२।३।८०॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy