SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ८८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् इरिकादिवर्जनं किम् ? इरिकावनम् ॥६७॥ गिरिनद्यादीनाम् । २।३।६८॥ एषाम् 'नो ण् वा' स्यात् । गिरिणदी, गिरिनदी; तूर्यमाणः, तूर्यमानः ॥६८॥ पानस्य भावकरणे | २|३|६९॥ पूर्वपदस्थाद् रादेः परस्य भावकरणार्थस्य पानस्य 'नो ण् वा' स्यात् । क्षीरपाणं क्षीरपानं स्यात् । कषायपाणः कषायपानः कंसः ॥ ६९ ॥ देशे | २|३|७०॥ पूर्वपदस्थाद्रादेः परस्य देशविषयस्य पानस्य 'नो ण् नित्यम्' स्यात् । क्षीरपाणा उशीनराः । देश इति किम् ? क्षीरपाना गोदुहः ॥७०॥ ग्रामाऽग्रान्नियः । २।३॥७१॥ आभ्यां परस्य नियो 'नो ण्' स्यात् । ग्रामणीः, अग्रणीः ॥७१॥ वाह्या वाहनस्य ।२।३।७२ ॥ वाह्यवाचिनो रादिमतः पूर्वपदात् परस्य वाहनस्य 'नो ण्' स्यात् । इक्षुवाहणम् । वाह्यादिति किम् ? सुरवाहनम् ॥७२॥ अतोऽह्नस्य ।२।३।७३॥ I रादिमतोऽदन्तात् पूर्वपदात् परस्याऽह्नस्य 'नो ण्' स्यात् । पूर्वाह्नः । अत इति किम् ? दुरह्नः । अह्नस्येति किम् ? दीर्घानी शरत् ॥ ७३ ॥ चतुस्त्रेर्हायनस्य वयसि । २।३।७४ ॥ आभ्यां पूर्वपदाभ्यां परस्य हायनस्य 'नो ण्' स्यात्, वयसि गम्ये । चतुर्हायणो वत्सः, त्रिहायणी वडवा । वयसीति किम् ? चतुर्हायना शाला ॥ ७४ ॥ वोत्तरपदान्तन- स्यादेरयुव पक्वा ऽहूनः | २|३|७५॥ पूर्वपदस्थाद् रादेः परस्य उत्तरपदान्तभूतस्य नाऽऽगमस्य स्यादेश्च 'नो ण् वा'
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy