SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २५० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् घस्ल सनयतनी-घनचलि ।४।४।१७॥ एष्वदे-'स्लिः' स्यात् । जिघत्सति, अघसत्, घासः, प्रात्तीति-प्रघसः, प्रादनम् प्रघसः ॥१७॥ परोक्षायां नवा ४४१८॥ अदेः परोक्षायां 'घस्ला ' स्यात् । जक्षुः, आदुः ॥१८॥ वेर्वय् ।४।४।१९॥ वेगः परोक्षायाम् 'वय् वा' स्यात् । ऊयुः, ववुः ॥१९॥ ऋः श-द-प्रः ।४।४।२०॥ एषां परोक्षायाम् 'ऋर्वा' स्यात् । विशश्रतुः, विशशरतुः; विदद्रतुः, विददरतुः; निपप्रतुः; निपपरतुः ॥२०॥ हनो वध आशिष्यो ।४।४।२१॥ आशीविषये 'हन्तेर्वधः स्यात्, न तु जिटि' । वघ्यात् । अत्राविति किम् ? घानिषीष्ट ॥२१॥ अयतन्यां वा त्वात्मने ॥४४॥२२॥ अद्यतन्यां विषये 'हनो वधः स्याद्, आत्मनेपदे तु वा' । अवधीत आवधिष्ट; आहत ॥२२॥ इणिकोईः ।४।४॥२३॥ इणिकोरद्यतन्याम् ‘गाः' स्यात् । अगात्, अध्यगात् ॥२३॥ __णावज्ञाने गमुः ।४।४॥२४॥ इणिकोरज्ञानार्थयोर्णी “गमुः' स्यात् । गमयति, अधिगमयति । अज्ञान इति किम् ? अर्थान् प्रत्याययति ॥२४॥ सनीडश्च ।४।४।२५॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy