SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १५२ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ एषां गिरावुत्तरपदे 'नाम्नि दीर्घः' स्यात् । अञ्जनागिरिः, कुक्कुटागिरिः ॥ अनजिरादिबहुस्वर-शरादीनां मतौ ।३।२७८॥ अजिरादिवर्जबहुस्वराणां शरादीनां च मती प्रत्यये 'नाम्नि दीर्घः' स्यात् । उदुम्बरावती, शरावती, वंशावती । अनजिरादीति किम् ? अजिरवती, हिरण्यवती ॥७८॥ ऋषौ विश्वस्य मित्रे ।।२।७९॥ ऋषावर्थे मित्रे उत्तरपदे विश्वस्य 'नाम्नि दीर्घः' स्यात् । विश्वामित्रः ॥ नरे ।३।२।८०॥ नरे उत्तरपदे 'नाम्नि विश्वस्य दीर्घः' स्यात् । विश्वानरः कश्चित् ॥८॥ वसु-राटोः ।३।२।८१॥ अनयोरुत्तरपदयोर्विश्वस्य 'दीर्घः' स्यात् । विश्वावसुः, विश्वाराट् ॥८१।। वलच्यपित्रादेः ।३।२।८२॥ वलच्प्रत्यये पित्रादिवर्जानाम् 'दीर्घः' स्यात् । आसुतीवलः । अपित्रादेरिति किम् ? पितृवलः, मातृवलः ।।८२॥ चितेः कचि ३।२।८३॥ चितेः कचि 'दीर्घः' स्यात् । एकचितीकः ॥८३॥ स्वामिचिहनस्याऽविष्टा-ऽष्ट-पञ्च-भिन्न-छिन्न-च्छिद्र- सुव स्वस्तिकस्य कर्णे ।३।२।८४॥ स्वामी चिन्यते येन तद्वाचिनो विष्टादिवर्जस्य कर्णे उत्तरपदे 'दीर्घः' स्यात् । दात्राकर्णः पशुः । स्वामिचिह्नस्येति किम् ? लम्बकर्णः । विष्टादिवर्जनं किम् ? विष्टकर्णः, अष्टकर्ण इत्यादि ॥८४॥ गति-कारकस्य नहि-वृति-वृषि-व्यधि-रुचि-सहि-तनौ क्वौ
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy