SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५१ श्रीसिद्धहेमचन्द्रशन्दानुशासनम् जातीयैकार्थेऽच्चेः ।।२।७०॥ 'महतोऽच्यन्तस्य जातीयरि एकार्थे चोत्तरपदे डाः' स्यात् । महाजातीयः महावीरः । जातीयैकार्ये इति किम् ? महत्तरः । अच्वेरिति किम् ? महद्भूता कन्या ||७०॥ न पुम्वनिषेधे ।३।२७१॥ 'महतः पुम्वनिषेधविषये उत्तरपदे डा न' स्यात् । महतीप्रियः ॥७१॥ इच्यस्वरे दीर्घ आच ३।२७२॥ 'इजन्तेऽस्वरादावुत्तरपदे पूर्वपदस्य दीर्घत्वम् आच' स्यात् । मुष्टीमुष्टि, मुष्टामुष्टि । अस्वर इति किम् ? अस्यसि ॥७२॥ हविष्यष्टनः कपाले ।३।२।७३॥ 'हविष्यर्थे कपाले उत्तरपदेऽष्टनो दीर्घः' स्यात् । अष्टाकपालं हविः । हविषीति किम् ? अष्टकपालम् । कपाल इति किम् ? अष्टपात्रं हविः ॥७३॥ गवि युक्ते ।३।२७४॥ 'युक्तेऽर्थे गव्युत्तरपदेऽष्टनो दीर्घः' स्यात् । अथगवं शकटम् । युक्त इति किम् ? अष्टगुश्चैत्रः ॥७॥ नाम्नि ३२७५॥ 'अष्टन उत्तरपदे संज्ञाया दीर्घः' स्यात् । अथपदः कैलाशः । नाम्नीति किम् ? अष्टदंष्ट्रः ॥७५॥ कोटर-मिश्रक-सिधक-पुरग-सारिकस्य वणे ।३।२।७६॥ एषां कृतणत्वे वने उत्तरपदे "संज्ञायां दीर्घः' स्यात् । कोटरावणम्, मिश्रकावणम्, सिघ्रकावणम्, पुरगावणम्, सारिकावणम् ॥७६॥ अअनादीनां गिरौ ।३।२७७॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy