SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ - ११४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ उपाजेकृत्य, उपाजे कृत्वा; अन्वाजेकृत्य, अन्वाजे कृत्वा ॥१२॥ स्वाम्येऽधिः ।३।११३॥ स्वाम्ये गम्येऽधीत्यव्ययं कृगयोगे 'गतिर्वा' स्यात् । चैत्रं ग्रामेऽधिकृत्य, अधि कृत्वा वा गतः । स्वाम्य इति किम् ? ग्राममधिकृत्य- उद्दिश्येत्यर्थः ॥१३॥ साक्षादादिश्च्यर्थे ।३।१।१४॥ एते व्यर्थवृत्तयः कृग्योगे ‘गतयो वा' स्युः । साक्षात्कृत्य, साक्षात् कृत्वा; मिथ्याकृत्य, मिथ्या कृत्वा ॥१४॥ नित्यं हस्ते-पाणावृद्धाहे ।३।१।१५॥ एतावव्ययावुद्वाहे गम्ये नित्यं कृग्योगे 'गती' स्याताम् । हस्तेकृत्य, पाणीकृत्य । उद्वाह इति किम् ? हस्ते कृत्वा काण्डं गतः ॥१५॥ प्राध्वं बन्धे ।३।१।१६॥ प्राध्यमित्यव्ययं बन्धार्थ कृग्योगे 'गतिः' स्यात् । प्राध्वंकृत्य । बन्ध इति किम् ? प्राध्वं कृत्वा शकटं गतः ॥१६॥ जीविकोपनिषदौपम्ये ।३।१११७॥ एतावौपम्ये गम्ये कृग्योगे 'गती' स्याताम् । जीविकाकृत्य, उपनिषत्कृत्य ॥१७॥ नाम नाम्नैकार्ये समासो बहुलम् ।३।१।१८॥ 'नाम नाम्ना सह ऐकायें - सामर्थ्यविशेषे सति समासो बहुलम्' स्यात्, लक्षणमिदमधिकारश्च तेन बहुव्रीह्यादिसंक्रमाऽभावे यत्रैकार्थता तत्रानेनैव समासः । विस्पष्टपटुः, दारुणाध्यायकः, सर्वचर्मीणो रयः, कन्येइव, श्रुतपूर्वः । नामेति किम् ? चरन्ति गावो धनमस्य । नाम्नेति किम् ? चैत्रः पचति ॥१८॥ सुज-वाऽर्थे संख्या संख्येये संख्यया बहुव्रीहिः ।।१।१९॥ 8ળાઈ બ.વી
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy