SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ११३ अनयोरर्थयोरेतौ यथासंख्यम् ‘गती' स्याताम् । अन्तर्हत्य, अदःकृत्यै - तत्कर्तेति ध्यायति ॥५॥ कणे-मनस् तृप्तौ ॥३॥१६॥ एतावव्ययौ तृप्ती गम्यमानायाम् ‘गती' स्याताम् । कणेहत्य मनोहत्य पयः पिबति । तृप्ताविति किम् ? तण्डुलावयवे कणे हत्वा ॥६॥ पुरोऽस्तमव्ययम् ।३।१७॥ एतावव्ययौ 'गती' स्याताम् । पुरस्कृत्य, अस्तङ्गत्य । अव्ययमिति किम् ? पुरः कृत्वा- नगरीरित्यर्थः ॥७॥ __ गत्यर्थ-वदोऽच्छः ।३।१८॥ अच्छेत्यव्ययं गत्यर्थानां वदश्च धातोः सम्बन्धि ‘गतिः' स्यात् । अच्छगत्य, अच्छोद्य ॥॥ तिरोऽन्तौ ॥१९॥ तिरोऽन्तझै ‘गतिः' स्यात् । तिरोभूय ॥९॥ कृगो नवा ।३।१।१०॥ तिरोऽन्तौं कृगः सम्बन्धि 'गतिर्वा' स्यात् । तिरस्कृत्य, तिरःकृत्य, पक्षे तिरः कृत्वा ॥१०॥ मध्ये-पदे-निवचने-मनस्युरस्यनत्याधाने ।३।१।११॥ अनत्याधानम् - अनुपश्लेषोऽनाश्चर्य च, तद्वृत्तय एतेऽव्ययाः कृग्योगे 'गतयो वा' स्युः । मध्येकृत्य, मध्ये कृत्वा; पदेकृत्य, पदे कृत्वा; निवचनेकृत्य, निवचने कृत्वा; मनसिकृत्य, मनसि कृत्वा; उरसिकृत्य, उरसि कृत्वा ॥११॥ उपाजेऽन्वाजे ३११११२॥ एतावव्ययौ दुर्बलस्य भग्नस्य वा बलाधानार्थी कृग्योगे 'गती वा' स्याताम् ।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy