SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३२] [श्रीविचाररत्नाकरः सुगन्धिमधुरैर्द्रव्यैः, प्राङ्मुखो वाऽप्युदङ्मुखः । वामनाड्यां प्रवृत्तायां, मौनवान् देवमर्चयेत्' ॥२॥ [ ] इत्याधुक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्तनादिकेन विधिना शुचिपट्टकादौ पद्मासनादिसुखासनासीनश्चन्दनभाजनाच्चन्दनं स्थानान्तरे हस्ततले वा प्रक्षिप्य कृतभालतिलकहस्तकङ्कणः श्रीचन्दनचर्चितहस्तद्वयो जिनमर्हन्तं पूजयित्वा वक्ष्यमाणाभिरङ्गाग्रभावपूजाभिरभ्यर्च्य संवरणं प्रत्याख्यानं प्राककतमकतं वा यथाशक्ति करोति । इति श्राद्धविधौ ॥२०॥ अथ पोषणे पोरुष्यादिप्रत्याख्याने वा देवमर्चयतो न दन्तधावनापेक्षेत्यक्षराणि लिख्यन्ते उपवासपौरुष्यादिप्रत्याख्यानिनस्तु दन्तधावनादि विनाऽपि शुद्धिरेव, तपसो महाफलत्वात् । लोकेऽपि उपवासादौ दन्तकाष्ठादि विनाऽपि देवार्चादिकरणात् । निषिद्धं च लौकिकशास्त्रेऽप्युपवासादौ दन्तकाष्ठादि । यदुक्तं विष्णुभक्तिचन्द्रोदये "प्रतिपद्दर्शषष्ठीषु, मध्यान्ते नवमीतिथौ । सङ्क्रातिदिवसे प्राप्ते, न कुर्याद्दन्तधावनम् ॥१॥ [वि.भ.च.] उपवासे तथा श्राद्धे, न कुर्याद्दन्तधावनम् । दन्तानां काष्ठसंयोगो, हन्ति सप्तकुलानि वै" ॥२॥ [वि.भ.च.] इति श्राद्धविधौ ॥२१॥ तथाऽन्यतीर्थिका हि पञ्चामृतमध्ये मधु गणयन्ति, श्रावकैस्तु ततस्थाने इक्षुरसो ज्ञेय इति लिख्यते-ततो घृत-१ इक्षुरस-२ दुग्ध-३ दधि-४ सुगन्धिजलैः ५ पञ्चामृतस्नात्रम् । इति श्राद्धविधौ ॥२२॥ अथ भगवतोऽङ्गे तिलककरणानुक्रमो लिख्यते ततः सुयत्नेन वालककुञ्चिकां व्यापार्य प्रक्षाल्याङ्गम् , अङ्गद्वयेन निर्जलतामापाद्य "अघ्रिजानुकरांसेषु मूनि पूजा यथाक्रमम्" [ ] इत्युक्तेर्वक्ष्यमाणतया सृष्ट्या नवाङ्गेषु श्रीचन्दनादिनाऽर्चयेत् । केऽप्याहुः-पूर्वं भाले तिलकं कृत्वा नवाङ्गपूजा कार्या । जिनप्रभसूरिकृतपूजाविधौ तु-"सरससुरहिचंदणेण देवस्स दाहिणजाणु१ दाहिणखंधर निडाल३ वामखंध६ वामजाणु५ लक्खणेसु पंचसु हिअएण सह छस्सु वा अंगेसु पूयं" । इति श्राद्धविधौ ॥२३॥ D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy