SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीविचाररत्नाकरे प्राच्यतटे तृतीयस्तरङ्गः] [५१ विप्लु तचित्तः स इव उन्मत्तक भूतः, भूतशब्दस्योपमानार्थत्वात्, उन्मत्तक एव वा उन्मत्तकभूतो भूतशब्दस्य प्रकृत्यर्थत्वादुदीर्णकर्मा, यतोऽयं उन्मत्तकभूतःपुरुषः तेन कारणेन 'मे' इति मां एषः अयमाक्रोशति शपति, 'उपहसइ'त्ति उपहासं करोति, अपघर्षति अपघर्षणं करोति, निश्छोटयति सम्बन्धान्तरसम्बन्धं हस्तादौ गृहीत्वा बलात् क्षिपति, निर्भर्त्सयति दुर्वचनैः, बध्नाति रज्वादिना, रुणद्धि कारागारप्रवेशादिना, छवेः-शरीरावयवस्य हस्तादेः छेदं करोति, प्रमारं-मरणप्रारम्भः प्रमशोमूर्छाविशेषो मारणस्थानं वा तं नयतिप्रापयतीति, अपद्रावयति मारयति, अथवा प्रमारं मरणमेव 'उद्दवेइ'त्ति उपद्रवयति उपद्रवं करोतीति, पतद्ग्रह-पात्रं कम्बलं प्रतीतं पादप्रोञ्छनं-रजोहरणं आच्छिनत्ति-बलादुद्दालयति, विच्छिनत्ति-विच्छिन्नं करोति दरे व्यवस्थापयतीत्यर्थः अथवा वस्त्रमीषच्छिनत्तिआच्छिनत्ति, विशेषेण छिनत्ति-विच्छिनत्ति, भिनत्तिपात्रं स्फोटयति अपहरति-चोरयति। वाशब्दाः सर्वे विकल्पार्थाः, इत्येकं परीषहादिसहनालम्बनस्थानं । इदं चाक्रोशादिकमिह प्राय आक्रोशवधाभिधान-परीषहद्वयरूपं मन्तव्यम्, उपसर्गविवक्षायां तु मानुष्यकं प्राद्वेषिकाद्युपसर्गरूपमिति। तथा यक्षाधिष्ठितो-देवताधिष्ठितोऽयं, तेनाक्रोशयतीत्यादि द्वितीयम्। तथा अयं हि परीषहोप-सर्गकारी मिथ्यात्वादिकर्मवशवर्ती 'ममं च णं'ति मम पुनस्तेनैव मानुष्यकेन भवेन जन्मना वेद्यते-अनुभूयते यत्तत्तद्भववेदनीयं कर्मोदीर्णं भवति अस्ति तेनैष मामाक्रोशय-तीत्यादि तृतीयम्। तथा एष बालिशः पापाभीतत्वात् का तु, नामाक्रोशनादि मम पुनरसहमानस्य किं मन्ने'त्ति मन्ये इति निपातो वितर्कार्थः 'कज्जइ'त्ति संपद्यते इह विनिश्चयमाह-'एगंतसो'त्ति एकान्तेन सर्वथा पापं कर्म-असातादि क्रियतेसंपद्यते इति चतुर्थः । तथा अयं तावत् पापं बध्नाति मम चेदं सहतो निर्जरा क्रियते इति पञ्चमम्। 'इच्चेतेहिं' इत्यादि' निगमनमिति, शेषं सुगममिति। छद्मस्थविपर्ययः केवलीति तत्सूत्रम्। तत्र च क्षिप्तचित्तः पुत्रशोकादिना नष्टचित्तः। दृप्तचित्तः पुत्रजन्मादिना दर्पवच्चित्तोन्मत्त एवेति। मां च सहमानं दृष्ट्वा अन्येऽपि सहिष्यन्त्युत्तमानुसारित्वात् प्राय इतरेषाम् । यदाह "जो उत्तमेहिं मग्गो, पहओ सो दुक्करो न सेसाणं । आयरियंमि जयंते, तयणुचरा केण सीएज्जा" ? ॥१॥[ बृ.भा./२३९]त्तिा इच्चे ते हि' इत्यादि अत्रापि निगमनं, शेषं सुगमम् ।।इति स्थानाङ्गपञ्चमस्थानक प्रथमोद्देशके ४४० प्रतौ २५५।२५६ पत्रे ॥१३॥ श्रीजिनशासने कुत्रापि नैकान्ततो हठो विधेयो, यतो निषिद्धमाद्रियते कारणात्, D:\ratan.pm5\5th proof
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy