SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधिप्रकरणम् प्रकाश: द्वादशाब्द्या श्रेष्ठिदाताकेनाऽष्टादशकोटिस्वर्णव्ययेन सप्तभूमे वास्तुशास्त्रायुक्तविधिना विधापिते सौधे रात्रौ 'पतामि पतामि' इत्युक्तिश्रुत्या भीतेन तावद्धनं लात्वा विक्रमार्कस्याऽर्पिते स्वर्णपुरुषतनादि । विधिनिष्पन्नविधिप्रतिष्ठितश्रीमुनिसुव्रतस्तूपमहिम्ना | प्रबलसैन्योऽपि कूणिको वैशाली नगरी ग्रहीतुं द्वादशाब्द्यापि न शशाक । भ्रष्टकूलवालकोक्त्या स्तूपपातने तु तदैव जगृहे । एवं गृहवद् हट्टमपि सुप्रातिवेश्मिकेऽनतिप्रकटेऽनतिगुप्ते च सुस्थाने विधिनिष्पन्नं मितद्वारत्वादिगुणं त्रिवर्गसिद्धिहेतुतयोचितं मन्तव्यम् । द्वारम् १। तथा त्रिवर्गसिद्धेः कारणमित्युत्तरत्राऽप्यनुवर्त्तनात् त्रिवर्गसिद्धिकारितया यदुचितं तद्विद्यानां लिखितपठितवाणिज्यधर्मादिकलानां ग्रहणमध्ययनं कार्यं सम्यक् । अशिक्षितानभ्यस्तकलो हि मूर्खत्वहास्यत्वादिना पदे पदे पराभूयते, यथा | कालिदासकविः प्राग्गोपो भूपसमे स्वस्तिस्थाने 'उशरट' इत्युक्तौ ग्रन्थशोधनचित्रसभादर्शनादौ च । कलावांश्च विदेशेऽपि मान्यते | वसुदेवादिवत् । वदन्त्यपि विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥ कलाश्च सर्वाः शिक्षणीयाः । क्षेत्रकालादिविशेषेण सर्वासामपि विशेषोपयोगसम्भवाद्, अन्यथा जातु सीदत्यपि । तदाहअट्टमर्दृपि सिक्खिज्जा, सिक्खि न निरत्थअं । अट्टमट्टपसाएण, खज्जए गुलतुंबयं । AAAAAAAAAAAAAAAAAAA ४६८
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy