SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि पञ्चमः प्रकरणम् प्रकाशः जाए दुब्भिक्खभरे दुत्थीभूए जणे समत्थेवि । अवयरिओ एस जिणो, सेणादेवीइ उअरंमि ॥ सयमेवागम्म सुराहिवेणं संपूइआ तओ जणणी । वद्धाविआ य भुवणिक्कभाणुतणयस्स लाभेणं ॥ तद्दिअहं चिअ सहसा, समत्थसत्थेहिं धन्नपुन्नेहिं । सव्वत्तो इंतेहि, सुहं सुभक्खं तहिं जायं ॥ संभविआई जम्हा, समत्तसस्साई संभवे तस्स । तो संभवोत्ति नामं, पइट्ठिअंजणणिजणएहिं ॥ देवगिरौ साधुजगसिंहः स्वसमीकृतषष्ठ्यधिकत्रिशतीवणिक्पुत्रपार्थात् प्रत्यहं साधर्मिवात्सल्यं द्वासप्तकङ्कतिसहस्रव्ययेनैकैकं व्यधापयत् । एवं प्रतिवर्षं तस्य षष्ठ्यधिकत्रिशतीसाधर्मिकवात्सल्यान्यभूवन् । थिरापद्रे श्रीश्रीमालआभूः सङ्घपतिः षष्ठ्यधिकत्रिशतीसाधर्मिकान् स्वतुल्यांश्चके । यतः किं तेन हेमगिरिणा रजताद्रिणा वा, यावाश्रिता हि तरवस्तरवस्त एव । मन्यामहे मलयपर्वतमेकमेव, यत्राम्रनिम्बकुटजा अपि चन्दनानि ॥ ___ साधुसारङ्गः पञ्चपरमेष्ठिमन्त्रपाठिभ्यः प्रवाहेण हैमटङ्ककं प्रत्येकं प्रददे । एकस्य चारणस्य पुनः पुनः पठेत्युक्तेर्नववारनमस्कारपाठिनो नव सौवर्णान् ददौ । इति सार्मिकवात्सल्यविधिः । (३) तथा प्रतिवर्षं जघन्यतोऽप्येकैका यात्रा कार्या । यात्रा च त्रिधा । यदुक्तम् ४४२
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy