________________
श्राद्धविधि
पञ्चमः
प्रकरणम्
प्रकाशः
अनृतं साहसं माया, मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ॥
अणंतपावरासीओ, जया उदयमागया । तया इत्थीत्तणं पत्तं, सम्मं जाणाहि गोअमा ! ॥ सर्वशास्त्रेष्वपि प्रायः पदे पदे तासां निन्दा दृश्यते, अतस्ता दूरतः परिहार्याः, तत्कथं तासु दानसन्मानवात्सल्यविधानं युक्तम् ? उच्यते,
नायमेकान्तो यत् स्त्रिय एव दोषबहुलाः, पुरुषेष्वपि समानमेतत्, तेऽपि क्रूराशया दोषबहुला नास्तिकाः कृतघ्नाः स्वामिद्रोहिणो विश्वस्तघातिनोऽसत्यवादिनोऽन्यधनस्त्रीप्रसक्ता निर्दया देवगुरुवञ्चकाश्च भूयांसोऽपि दृश्यन्ते । न च तद्दर्शनेन महापुरुषाणामवज्ञा कर्तुं युज्यते । एवं स्त्रीणामपि । यद्यपि कासाञ्चिद् दोषबहुलत्वमुपलभ्यते, तथापि कासाञ्चिद् गुणबहुलत्वमप्यस्ति । तीर्थकरजनन्यो हि स्त्रीत्वेऽपि तद्गुणगरिमयोगितया सुरेन्द्रैरपि पूज्यन्ते मुनीन्द्रैरपि स्तूयन्ते । लौकिका अप्याहुः
निरतिशयं गरिमाणं, तेन युवत्या वदन्ति विद्वांसः । तं कमपि वहति गर्भ, जगतामपि यो गुरुर्भवति ॥
काश्चन स्वशीलप्रभावादनलं जलमिव, जलं स्थलमिव, व्यालान् शृगालानिव, विषधरं रज्जुमिव, विषममृतमिव कुर्वन्ति । चतुर्वणे च सङ्घ चतुर्थभङ्गं श्राविका एव । शास्त्रे च तासां निन्दाभूयस्त्वं तदासक्तिपराणां तन्निवृत्तिपरमेव । सुलसाप्रभृतयो हि श्राविकास्तीर्थकरैरपि प्रशस्यगुणाः, सुरेन्द्रैरपिस्वर्गभूमिषु श्लाघितधर्मदााः , प्रबलमिथ्यात्वैरप्यक्षोभ्यसम्यक्त्वसंपदः, काश्चिच्च
४४०