SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ पञ्चमः श्राद्धविधिप्रकरणम् प्रकाशः तत्प्रतिपत्तिश्चैवं, स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि प्रकरणे साधर्मिकाणां निमन्त्रणं विशिष्टभोजनताम्बूलवस्त्राभरणादिदानमापन्निमग्नानाञ्च स्वधनव्ययेनाऽप्यभ्युद्धरणं । अन्तरायदोषाच्च विभवक्षये पुनः पूर्वभूमिकाप्रापणम् । किं हि | तस्य प्रौढिम्ना यः समानसाधर्मिकान् समृद्धान् न कुरुते । उक्तमपि न कयं दीणुद्धरणं, न कयं साहम्मिआण वच्छल्लं । हिअयम्मि वीअराओ, न धारिओ हारिओ जम्मो ॥ धर्मे च विषीदतां तेषां तेन तेन प्रकारेण धर्मे स्थैर्यारोपणम् । प्रमाद्यतां च स्मारणवारणनोदनप्रतिनोदनादिकरणम् । यतःपम्हढे सारणा वुत्ता, अणायारस्स वारणा । चुक्काणं चोअणा भुज्जो, निट्ठरं पडिचोअणा ॥ तथा तेषां वाचनाप्रच्छनापरिवर्त्तनानुप्रेक्षाधर्मकथादिषु यथायोगं विनियोजनम् । विशिष्टधर्मानुष्ठानकरणार्थं साधारणपौषधशालादेः कारणमित्यादि । श्राविकास्वपि वात्सल्यं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यम् । ता अपि ज्ञानदर्शनचारित्रवत्यः शीलसन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः सार्मिकत्वेन मान्याः । ननु स्त्रियो लोके लोकोत्तरे च दोषभाजनत्वेनैव प्रसिद्धाः एताः खल्वभूमिका विषकन्दल्यः, अनभ्रसम्भवा वज्राशनयः, अनौषधा व्याधयः, अकारणो मृत्युः, अनिमित्त उत्पात:, अफणाः सर्पिण्यः, अकन्दरा व्याघ्रयः, प्रत्यक्षराक्षस्यः, गुरुबन्धुस्नेहविघातहेतवः, असत्यमायादिबहुलाः ।। यदुक्तं ४३९
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy