SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः उक्तं दिनकृत्यं साम्प्रतं रात्रिकृत्यमाह-'पडिक्कमइ त्ति' । ततः श्राद्धः साधुपार्श्वे पौषधशालादौ वा यतनया प्रमार्जनापूर्वं सामायिककरणादिविधिना प्रतिक्रामति, षड्विधावश्यकलक्षणं प्रतिक्रमणं करोति । तत्र स्थापनाचार्यस्थापनामुखवस्त्रिकारजोहरणादिधर्मोपकरणग्रहणसामायिककरणादिविधिः श्राद्धप्रतिक्रमणसूत्रवृत्तौ 'कश्चिदुक्त इत्यत्र नोच्यते । प्रतिक्रमणं च सम्यक्त्वादिसर्वातिचारविशुद्ध्यर्थं प्रतिदिवसमुभयसन्ध्यमपि विधेयं श्राद्धेनाऽभ्यासाद्यर्थं च । यथाभद्रकेणापि जातु निरतिचारत्वेऽपि तृतीयवैद्यौषधकल्पमवश्यं कर्त्तव्यमिदम् । यदार्षम् सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं, कारणजाए पडिक्कमणं ॥ कारणजाएत्ति अतिचाराभावे पूर्वकोट्यामपि न प्रतिक्रामन्ति, अतिचारे मध्याह्नेऽपि कुर्युरित्यर्थः ।। वाहिमवणेइ भावे, कुणइ अभावे तयं तु पढमंति । बिइअमवणेइ न कुणइ, तइअं तु रसायणं होई ॥ १. किञ्चिदिति को० ह० प्र० पाठः । ३९३
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy