SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ प्रथम: प्रकाशः श्राद्धविधिप्रकरणम् AAAAAAAAAAAAAAAAAAAAAAAAA यो व्याधिभिर्ध्यायति बाध्यमानं जनौघमादातुमना धनानि । व्याधीन् विरुद्वौषधतोऽस्य वृद्धि नयेत् कृपा तत्र कुतोऽस्तु वैद्ये ॥ केचिच्च दर्शनि-दरिद्राऽनाथम्रियमाणादिभ्योऽपि प्रसह्य द्रव्यं जिघृक्षन्ति । अभक्ष्यौषधाद्यपि कारयन्ति । विविधौषधादिकपट्टवृत्त्या जनान् विप्रतारयन्ति । द्वारवतीवैद्याऽभव्यधन्वतरिवत् । ये तु सत्प्रकृतयः स्वल्पलोभाः परोपकारिणस्तेषां वैद्यविद्या श्रीऋषभस्वामिजीवजीवानन्दवैद्यवद् भवद्वयेऽपि गुणाय २। कृषिर्जलदजलकूपादिजलोभयजलनिष्पाद्यभेदात् त्रिविधा ३। पशुपाल्यं गो-महिष्यजा-करभ-वृषभ-हय-गजाजीविकादिभेदादनेकप्रकारम् ।। कृषिपाशुपाल्ये च न विवेकिजनोचिते । उच्यते हिरायाण दंतिदंते बइल्लखंधेसु पामरजणाणं । सुहडाण मण्डलग्गे, वेसाण पओहरे लच्छी ॥ अनिर्वहंस्तु यदि कुर्यात्तदा वापकालाद्याकलनदयालुत्वादि धार्यम् । यदाहवापकालं विजानाति भूमिभागं च कर्षकः । कृर्षि साध्यां पथि क्षेत्रं यश्चोज्झति स वर्द्धते ॥ पाशुपाल्यं श्रियो वृद्ध्यै कुर्वन्नोज्ञद्दयालुताम् । तत्कृत्येषु स्वयं जाग्रच्छविच्छेदादि वर्जयेत् ॥ २३६
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy