SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ प्रथम: प्रकाशः श्राद्धविधिप्रकरणम् सेवया सेवकानां, भिक्षया भिक्षाचराणाम् । तत्र वाणिज्यं धान्य-घृत-तैल-कास-सूत्र-वस्त्र-धातु-मणि-मौक्तिक-नाणकादिक्रयाणक भेदैरनेकविधम् । लोके हि षष्ठ्यधिका त्रिशती क्रयाणकानि इति प्रसिद्धिः । भेदप्रभेदादिव्यक्तिविवक्षायां त्वलब्धसङ्ख्यान्यपि तानि। कलान्तरव्यवहारोऽपि वाणिज्येऽन्तर्भवति १। विद्याप्यौषध-रस-रसायन-चूर्णाञ्जन-वास्तु-शकुन-निमित्त-सामुद्र-चूडामणि-धर्मार्थ-काम-ज्योतिस्तर्कादिभेदैर्नानाविधा । इह वैद्यविद्या गान्धिकत्वं च प्रायो दुर्ध्यानसम्भवादिना विशेषगुणाय न दृश्यते । यद्यपि सधनमान्द्यादौ वैद्यगान्धिकयो रिलाभ: स्थाने बहुमानादि च स्यात् । यतः-आतुरे हि पिता वैद्यः । तथा रोगिणां सुहृदो वैद्याः प्रभूणां चाटुकारिणः । मुनयो दुःखदग्धानां गणकाः क्षीणसंपदाम् ॥ पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिकैः । यत्रैकेन गृहीतं यत्तत्सहस्रेण दीयते ॥ तथापि यस्य यथा लाभः स प्रायस्तथैवेहते । तदुक्तंविग्रहमिच्छन्ति भटा वैद्याश्च व्याधिपीडितं लोकम् । मृतकबहुलं च विप्राः क्षेमसुभिक्षं च निर्ग्रन्थाः ॥ २३५
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy