SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्रथम: प्रकाशः श्राद्धविधिप्रकरणम् सपत्रपुष्पफला सा वल्ली क्षेत्रस्यैव दह्यते, तद्भस्मन एकगदीआणकश्चतुःषष्टिगदीआणकताम्रमध्ये क्षिप्यते, ततो जात्यं हेम स्यादिति सिद्धशिक्षितौ गृहमायातौ । एकेन यथाविधिकृते जात्यं हेम जज्ञे । अन्येन विधिः किञ्चिन्न्यूनश्चक्रे, तस्य च रूप्यमेवेति सर्वत्र सम्यग् विधिज्ञेयः कार्यश्च सर्वशक्त्या । पूजादिपुण्यक्रियाप्रान्ते च सर्वत्राऽविध्याशातनानिमित्तं मिथ्यादुष्कृतं दातव्यं । अङ्गादिपूजावयफलं त्वेवमाहुःविग्धोवसामिणेगा, अब्भुदयपसाहणी भवे बीआ । निव्वुइकरणी तइआ, फलया उ जहत्थनामेहिं ॥ अत्र च प्रागुक्तमङ्गाग्रपूजाद्वयं चैत्यबिम्बकारणयात्रादिश्च द्रव्यस्तवः । यदाहजिणभवणबिंबठवणजत्तापूआइसुत्तओ विहिणा । दव्वत्थओ त्ति नेओ, भावत्थयकारणत्तेण ॥ निच्चं चिअ संपुन्ना, जइवि हु एसा न तीरए काउं । तहवि अणुचिट्ठिअव्वा, अक्खदीवाइदाणेण ॥ एगंपि उदगबिंदू, जह पक्खितं महासमुद्दम्मि । जायइ अक्खयमेवं, पूआ वि हु वीअरागेसु ॥ एएणं बीएणं, दुक्खाई अपाविऊण भवगहणे । अच्चंतुदारभोए, भोत्तुं सिझंति सव्वजिया ॥ पूआए मणसंती, मणसंतीए उत्तमं झाणं । सुहझाणेण य मुक्खो मुक्खे सुक्खं निराबाहं ।। पुष्पाद्यर्चा तदाज्ञा च, तद्र्व्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च, भक्तिः पञ्चविधा जिने ॥ ससससससस सससस सससससससस १७३
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy