SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ प्रथम: श्राद्धविधिप्रकरणम् प्रकाशः शतानीके मृते मृगावतीगिरा उज्जयिन्यानीतेऽष्टाभिर्वप्रं तृणान्नपूर्णां पूरी च चके । श्रीवीरे समवसृते भिल्लपृष्टं या सा सा सेति | सम्बन्धं श्रुत्वा सा अङ्गारवत्याद्याश्चण्डप्रद्योतराज्ञोऽष्टौ प्रव्रजिताः । इति विध्यविध्योतिम् । न चाविधिकृतादकृतमेव वरमिति प्रतिपक्षश्चिन्त्यः । यदुक्तं अविहिकया वरमकयं असुअवयणं भणंति समयन्नू । पायच्छित्तं अकए, गुरुअं वितहं कए लहुअं ॥ तस्माद्धर्मानुष्ठानं निरन्तरं कार्यमेव, किन्तु तत्कुर्वता सर्वशक्त्या विधिविधौ यतनीयम् । इदमेव च श्रद्धालोर्लक्षणम् । आहुश्च विहिसारं चिअ सेवइ, सद्धालू सत्तिमं अणुट्ठाणं । दव्वाइदोसनिहओ, विचक्खवायं वहइ तम्मि ॥ धन्नाण विहिजोगो विहिपक्खाराहगा सया धन्ना । विहिबहुमाणा धन्ना, विहिपक्खअदूसगा धन्ना ॥ आसन्नसिद्धिआणं विहिपरिणामो होइ उ सयकालं । विहिचाओ अविहिभत्ती, अभव्वजिअदूरभव्वाणं ॥ कृषिवाणिज्यसेवाद्यपि भोजनशयनासनगमनवचनाद्यपि च द्रव्यक्षेत्रकालादिविधिना पूर्ण फलति, अन्यथा त्वल्पमेव । श्रूयते हि द्वौ नरौ द्रव्यार्थिनौ देशान्तरे सिद्धनरं बहूपासितवन्तौ, ततस्तुष्टेन तेन तुम्बीफलबीजानि सप्रभावाण्यर्पितानि, सम्यगाम्नायश्चोक्तो, यथा शतवारकृष्टक्षेत्रे निरातपे उक्तनक्षत्रवारयोगे तानि वाप्यानि, वल्लीनिष्पत्तौ कानिचिद् बीजानि सङ्ग्रह्य १७२
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy