SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ऋषिभाषितानि ठाणमब्भुवगता चिट्ठति । भवितव्यं खलु भोः ! अवधानविशेषसम्पादनायाऽऽमन्त्रणशब्दोऽयम्, सर्वलेपोपरतेन। लेपोऽत्र हिंसाद्याश्रवाश्रुतंपापकर्माणि, अभिष्वङ्गाप्रीत्याद्यात्मपरिणामलक्षणा तद्योगयोग्यता वो। कस्मादेवमुच्यत इत्याह- लेपोपलिप्ताः खलु भोः ! जीवा अनेकजन्मयोनिभयावर्त्तम्, अनेकताभिधानमानन्त्याद्युपलक्षणम्, एवं चानन्तजन्मपरम्परा, जातस्य हि ध्रुवो मृत्युरिति न्यायाद - नन्तमरणानि, चतुरशीतिलक्षयोनयः, सप्तभयानि एवावर्त्तानि पयसां भ्रमलक्षणानि यत्र संसारसागरमिति योगः । तथाऽनादिकम्, न कदाचिदनीदृशं जगदित्युक्तेः, अनवदग्रम्अनन्तम् । न च प्रलये सर्वसंहृतेर्मृषेदमिति वाच्यम्, प्रलयनिरूपणस्यागमाभासत्वात्। न चार्वाग्दर्शिनां निश्चयाऽसम्भव इति वाच्यम्, दृष्टबाधयैव तद्योगात्, तथाहुराचार्याः दृष्टबाधैव यत्रास्ति ततोऽदृष्टप्रवर्तनम्। असच्छ्रद्धाऽभिभूतानां केवलं ध्यान्ध्यसूचकमिति । दृष्टबाधा तु कूटस्थैकान्तनित्यतादिनिरूपणेन व्यक्तैवेत्यलं प्रसङगेन दीर्घाद्धं दीर्घकालम्, अनन्तैः पुद्गल - परावर्तैरपि निष्ठाविरहात्। दीर्घो वाऽध्वा तत्परिभ्रमणहेतुः कर्मरूपो मार्गो यस्मिंस्तम्, चातुरन्तम्- नरकादिगतिविभागेन चतुर्विभागम् । एवंविधं संसारसागरं (अनुपरिवर्त्तन्ते - घटीयन्त्रन्यायेनैकेन्द्रियादिषु भूयो भूयो भ्रमन्ति । लेपोपरताः पुनरनेकजन्मयो - निभयावर्त्तं यावत् संसारसागरं) व्यतिक्रान्ताः - उल्लङ्घितवन्तः शिवम्, एकान्तिकात्यन्तिकाशिवोच्छेदात्, अतुलम्, 9. आ + स्रुत ( झरेलुं) २. दृश्यतां पोडशके । ।१६-६ ।। ३ योगबिन्दी । ।२४ ।। - - १७ १८ - आर्षोपनिषद् तत्सुखस्य निरूपमत्वात्, तथा चार्षम् लोके तत्सदृशो ह्यर्थः, कृत्स्नेऽप्यन्यो न विद्यते। उपमीयेत तद्येन, यस्मान्निरुपमं सुखमिति'। अचलम्, स्वाभाविकप्रायोगिकचलनक्रियाव्यपोहात्, अव्याबाधम्, द्रव्यभावव्याबाधावर्जितत्वात्, अपुनर्भवम्, ततः पुनर्भवसम्भवाभावात्, अपुनरावृत्तम् - अविद्यमानपुनर्भवावतारे, बीजाभावात्, तदाह- दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, नारोहति भवाङ्कुरः - इति । शाश्वतम् साद्यपर्यवसितत्वेन शश्वद्भावात्, एतादृशं स्थानम् - सिद्धिगतिलक्षणं स्वरूपस्थितिमात्रं वा, अभ्युपगता:- आभिमुख्येन समीपं प्राप्तास्तिष्ठन्ति परमानन्दसमाहिता वर्तन्ते । तत्स्वरूपमेव संवर्णयन्नाहसे भवति सव्वकामविरते सव्वसंगातीते सव्वसिणेहातिक्कंते सव्ववीरियपरिनिव्वुडे सव्वकोहोवरते सव्वमाणोवरते सव्वमायोवरते सव्वलोभोवरते सव्ववासादाणोवरते सुसव्वसंवुडे सुसव्वसव्वोवरते सुसव्वसव्वोवसंते सुसव्वसव्वपरिवुडे णो कत्थइ सज्जति य। तम्हा सव्वलेवोवरए भविस्सामि त्ति कट्टु असिएणं दविलेणं अरहता इसिणा बुझतं ।।३-१ ।। स सर्वलेपोपरतो सर्वकामविरतः भवति, साम्यसुखसागरान्तर्निमग्नत्वात्, यथोक्तम् - अन्तर्निमग्नः समतासुखाब्धौ, बाह्ये सुखे नो रतिमेति योगी । अटत्यटव्यां क इवार्थलुब्धो गृहे समुत्सर्पति कल्पवृक्षे इति । तमेव विशेषयति - सर्व - १. तत्त्वार्थभा. का. । । २-३०।। २. तत्त्वार्थभा. का. । ।२-८ ।। १३. अध्यात्मोपनिषदि । ।४-५ ।।
SR No.009616
Book TitleRushibhashitani Part 1
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages141
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy