SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Re-ऋषिभाषितानि - हतमेव फलम्, कथञ्चित्तदभिन्नत्वात्तस्य। तस्माद्यः फलार्थी स एव सिञ्चति मूलम्, फलघाती तु नैव सिञ्चति। ___ मूलं च संसाराख्यफलस्य मोहनीयमेव, नन्वेवमनादिकर्मसंयोगनिर्वर्तित इति प्लवते इति चेत् ? न, तद्धेतोरेवास्तु किं तेनेति न्यायेन मोहमूलकत्वाद् भवस्य, शेषकर्मणामपि तदधीनत्वात्, तदाह- कम्मं च मोहप्पभवं वयंति - इति, तथा- गर्भसूच्यां विनष्टायां यथा तालो विनश्यति। तथा कर्म क्षयं याति मोहनीये क्षयं गते - इति । अत एवाह साक्षादपि - संसारबीजं कात्र्येन मोहनीयं प्रहीयत इति। तस्माज्जन्मादिदुःखात्मकस्य संसारस्य मोह एव मूलमित्याह मोहमूलमणिव्वाणं, संसारे सव्वदेहिणं। मोहमूलाणि दुक्खाणि, मोहमूलं च जम्मणं।।२-७।। मोहमूलमनिर्वाणं संसारे सर्वदेहिनाम्, तस्यैव तत्प्रतिबन्धकत्वात्। तस्मान् मोहमूलानि दुःखानि, आह च- भवे दुक्खरूवे दुक्खफले दुक्खाणुबंधे - इति । ततस्तल्लक्षणसंसारमूलस्य दुःखमूलकता युक्तैव। अत एवागमः - दुक्खं हयं जस्स न होइ मोहो- इति । च- तथा मोहमूलं जन्म, वीतरागजन्मादर्शनात्। यत एवं तस्मात् दुक्खमूलं च संसारे, अण्णाणेण समज्जितं। मिगारि व्व सरुप्पत्ती, हणे कम्माणि मूलतो।।२-८।। दुःखमूलं च, अनन्तरनिर्दिष्टम्, संसारे अज्ञानेन १. उत्तराध्यवने । ।३२-७।। २. तत्त्वार्थभाष्यसम्बन्धकारिकायाम् ।।२-४ ।। ३. तत्त्वार्थभाष्ये ।।२-४।। ४. पञ्चसुत्रे । 19 ।। ५. उत्तराध्ययने ।।३२-८ ।। - आर्थोपनिषद् - समर्जितम्, ततो हिताहिताविवेचनात्, उक्तं च - अज्ञानं खलु कष्टं रागादिभ्योऽपि सर्वपापेभ्यः। हितमहितं वाऽर्थं न वेत्ति येनावृतो लोक:- इति। किमतः कर्तव्यमित्याह- मृगारिरिव सिंह इव शरोत्पत्तिम्, सिंहो हि न श्ववत् शिलाशकलदशनप्रवृत्तो भवति, स तु शरेण कृतप्रहारः कुत एष शर आगत इति तदुत्पत्तिमन्वेषयति। तथा चार्षम् - पत्थरेणाहओ कीवो पत्थरं डक्कुमिच्छइ। मिगारि उ सरं पप्प सरुप्पत्तिं विमग्गइ - इति । त्वमपि सिंहवत् घातय कर्माणि मूलतः - अज्ञानलक्षणमोहोन्मूलनेन। कर्मघातफलोपदर्शनेनोपसंहरति एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।। एवम्- कर्ममूलोन्मूलनेन, शेषं पूर्ववत्। इति द्वितीये वज्जियपुत्राध्ययन आर्षोपनिषद्। ॥ अथ तृतीयाध्यायः॥ अत्रापि प्रकारान्तरेण सिद्धताविर्भावोपाय उपदर्श्यते - भवितव्वं खलु भो ! सव्वलेवोवरतेणं। लेवोवलित्ता खलु भो! जीवा अणेगजम्मजोणीभयावत्तं अणादीयं अणवदग्गं दीहमद्धं चातुरंतं संसारसागरं (अणुपरियटॅति। लेवोवरता पुण अणेगजम्मजोणीभयावत्तं जाव संसारसागरं) वीतीकंता सिवमतुलमयलमव्वाबाहमपुणब्भवमपुणरावत्तं सासतं १. उपदेशमालायाम् ।।१३९ ।। २. त-घ-च-ग- भविदच्वं । क-ख-ज-झ-ठ-ढ-ण-थ-ध-पभवितव्वं । ट- भविदुब्बं ।
SR No.009616
Book TitleRushibhashitani Part 1
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages141
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy