SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ४४] [वस्तुपालप्रशस्तिः तस्य जगत्यां प्रीत्य, ललितादेव्याः स्ववल्लभाया यः । सूत्रयति स्म पवित्रां, वटसावित्रीसदनसहिताम् ॥५६।। किं च कारयता तत्र, तक्रविक्रयवेदिकाम् । स्वस्य प्रकटिता येन, कृत्या-ऽकृत्यविवेकिता ॥५७।। उद्धृत्य वैद्यनाथस्य, वेश्म योऽत्रैव मण्डपे । मूर्ति श्रीमल्लदेवस्य, शस्यकीर्तिरतिष्ठिपत् ॥५८।। पुण्यं प्रतापसिंहस्य, यः स्वपौत्रस्य वर्धयन् । तत्रैव रचयामास, ध्वस्तग्रीष्मातपां प्रपाम् ॥५९॥ प्रभूतभूतराजस्य, यशोराजस्य मन्दिरम् । रम्यं निर्मापयामास, कीर्तीनां वासवेश्म यः ॥६०।। असौ भुवनपालस्य, शिवाय शिवमन्दिरम् । अस्थापयत् समं रम्यैर्दशभिर्देवतालयैः ॥६१।। तज्जगत्यां च यः काम्यं, चण्डिकायतनं नवम । वेश्म रत्नाकरस्यापि, निस्सपत्नमसत्रयत ॥६२॥ पञ्च पौषधशालाश्च, तत्र येन वितन्वता । पञ्चोत्तरविमानश्रीपात्रमात्मा व्यतन्यत ॥६३।। पुण्यायाऽजयसिंहस्य, रोहडीजिनधाम्नि यः । नाभेयप्रतिमां तस्य, मूर्ति च निरमापयत् ॥६४॥ इहैवाष्टापदोद्धारं, श्रीशालिगजिनालये । लक्ष्मीधर[स्य] पुण्यार्थमुपकारी चकार यः ॥६५॥ तत्रैकं राणकश्रीमदम्बडस्य तथाऽपरम् । पुण्यार्थं वैरिसिंहस्य, यस्तीर्थेशं न्यवीविशत् ॥६६॥ श्रीकुमारविहारेऽत्र, वृत्रारातिनतक्रमौ । पार्श्वनाथ-महावीरौ, प्रीत्या यः प्रत्यतिष्ठिपत् ॥६७।। 25 ग्रामेऽर्कपालितकनाम्नि जिनेश्वरस्य, वीरस्य मन्दिरमुदारमकारि येन । भूतेशवेश्म च मनोहरमध्वनीना, संजीविनी तपनतापरिपुः प्रपा च ॥६८॥ 15 D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy