SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६६] [सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ જેના ગુણોએ જેની કીર્તિને ત્રણ જગતમાં વ્યાપ્ત કરી છે તે આ તેજપાલના પુત્ર લૂણસિંહના गुणोनी सर्व ओप्रशंसा ४२ छ. (६) ભગવાન્ શ્રીઆદિનાથ અને કપર્દિયક્ષની કૃપાથી આ પ્રશસ્તિ વસ્તુપાલના વંશનું કલ્યાણ ७२नारी थामी. (७) મહામાત્ય શ્રીવસ્તુપાલની આ પ્રશસ્તિ સ્તંભતીર્થ(ખંભાત)નિવાસી ધ્રુવ જગતસિંહે લખી અને સૂત્રધાર કુમારસિંહે કોતરી. કલ્યાણ હો ! હવે મહામાત્ય શ્રીવસ્તુપાલ સંબંધિત અદ્યાવધિ અપ્રસિદ્ધ દશ પ્રશસ્તિલેખોનો અક્ષરશઃ પાઠ અને તે લેખોનો ટૂંક પરિચય આપવામાં આવે છે : प्रशस्तिलेखाङ्क-१ स्वस्ति श्रीवल्लिशालायां वस्तुपालाय मन्त्रिणे । यद्यशःशशिनः शत्रुदुष्कील् शर्वरीयितम् ॥१॥ शौण्डीरोऽपि विवेकवानपि जगत्त्राताऽपि दाताऽपि वा, सर्वः कोऽपि पथीह मन्थरगतिः श्रीवस्तुपालश्रिते ।। स्वज्योतिर्दहनाहुतीकृततमस्तोमस्य तिग्मधुतेः, कः शीतांशुपुर:सरोऽपि पदवीमन्वेतुमुत्कन्धरः ? ॥२॥ श्रीवस्तुपालसचिवस्य यशःप्रकाशे, विश्वं तिरोदधति धूर्जटिहासभासि । मन्ये समीपगतमप्यविभाव्य हंसं, देवः स पद्मवसतिश्चलितः समाधेः ॥३॥ वास्तवं वस्तुपालस्य वेत्ति कश्चरिताद्भुतम् ? । यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि ॥४॥ शून्येषु द्विषतां पुरेषु विपुलज्वालाकरालोदयाः, खेलन्ति स्म दवानलच्छलभृतो यस्य प्रतापाग्नयः । जृम्भन्ते स्म च पर्वगवितसितज्योतिःसमुत्सेकितज्योत्स्नाकन्दलकोमलाः शरवणव्याजेन यत्कीर्तयः ।।५।। कुन्दं मन्दप्रतापं, गिरिशगिरिरपाहंकृतिः, सास्रुबिन्दुः पूर्णेन्दुः, सिद्धसिन्धुविधृतविधुरिमा, पञ्चजन्यः समन्युः । शेषाहिर्निविशेषः, कुमुदमपमदं, कौमुदी निष्प्रसादा, क्षीरोदः सापनोदः, क्षतमहिम हिम यस्य कीर्तेः पुरस्तात् ॥६।। यस्योर्वीतिलकस्य किन्नरगणोद्गीतैर्यंशोभिर्मुहुः स्मरेद्विस्मयलोलमौलिविगलच्चन्द्रामृतोज्जीविनाम् । D:\sukar-p.pm5\2nd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy