SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ११२] [स्तम्भतीर्थीयश्रीआदीश्वरमन्दिरगतः शिलालेखः (७) स्तम्भतीर्थीयश्रीआदीश्वरमन्दिरगतः शिलालेखः ॥ (१) ॐ नमः श्रीसर्वज्ञाय ॥ धीराः सत्त्वमुशन्ति यत्रिभुवने...............नेति श्रुतं, साहित्योपनिष[न्नि](२)षण्णमनसो यत्प्रतिभं मन्वते । सार्वज्ञं च यदामनन्ति मुनयस्तत्किञ्चिदत्यद्भुतं, ज्योतिर्योतितवि(३)ष्टपं वितनुतां भुक्ति च मुक्ति च वः ॥१॥ श्रीमद्गुर्जरचक्रवर्तिनगरप्राप्तप्रतिष्ठोऽजनि, प्राग्वाटाह्वयर(४)म्यवंशविलसन्मुक्तामणिश्चण्डपः । यः संप्राप्य समुद्रतां किल दधौ राजप्रसादोल्लसद्दिक्कूलङ्कष(५)कीर्तिशुभ्रलहरिः श्रीमन्तमन्तर्जिनं ॥२॥ अजनि रजनिजानिज्योतिरुद्योतिकीर्तिस्त्रिजगति तनुज(६)न्मा तस्य चण्डप्रसादः । नखमणिसखशा[ङ्गः सुन्द]र: पाणिपद्मः, कमकृत न कृतार्थं यस्य कल्पद्रुकल्प:(७) ॥३॥ पत्नी तस्याजायतात्यायताक्षी, मूर्तेव श्रीः [पुण्य]पात्रं जयश्रीः [1] जज्ञे ताभ्यामग्रिमः सूरसंज्ञः, पुत्रः श्री(८)मान् सोमनामा द्वितीयः ॥४॥ निर्माप्याऽऽदिजिनेन्द्रबिम्बसमं शेषत्रयोविंशतिश्रीजैनप्रतिमाविराजि(९)तमसावभ्यच्चितुं वेश्मनि [1] पूज्यश्रीहरिभद्रसूरिसुगुरोः [पार्वात् प्र]तिष्ठाप्य च, । स्वस्याऽऽत्मीयकुलस्य चा[क्ष] (१०)यमयं श्रेयोनिधानं व्यधात् ॥५॥ असावाशाराजं तनुजमपरं सोमसचिवः, प्रियायां सीतायां शुचिच(११)रितवत्यामजनयत् । [यशोभि........]भिर्जगति विशदे क्षीरजलधौ, निवासैकप्रीतिमुदमभजदि(१२)दुः प्रतिपदं ॥६।। 15 25 D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy