SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 11 eft: 11 श्रीमन्माघकविप्रणीतं शिशुपालवधम् 'सर्वङ्कषा' मल्लिनाथकृतया व्याख्यया हिन्दीव्याख्यया चोपेतम् प्रथमः सर्गः सर्वङ्कषा इन्दोवरदलश्याममन्दिरानन्दकन्दलम् । वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥ दन्ताश्चन धरणीतल मुन्नमय्य पातालकेलिषु धृतादिवराहलीलम् । उल्लाघनोत्फणफणाधरगीयमानक्रीडावदानमिभराजमुखं नमामः ॥ शारदा शारदाम्भोजवदना वदनाम्बुजे । सर्वदा सर्वदास्माकं संनिधि संन्निधि क्रियात् ॥ वाणी कणभुजीमजीगणदवाशासीच्च वैयासिकी मन्तस्तन्त्र मस्त पन्नगगवीगुम्फेषु चाजागरीत् । वाचामाकलचद्रहस्यमखिलं यश्चाक्षपादस्फुरां लोकेऽभूद्यदुपज्ञमेव विदुषां सोजन्यजभ्यं यशः ॥ मल्लिनाथः सुधीः सोऽयं महोपाध्यायशब्दभाक् । विधत्ते माघकाव्यस्य व्याख्यां सर्वङ्कषाभिधाम् ॥ शब्दार्थपरीक्षणप्रणयिनो ये वा गुणालङ्क्रिया शिक्षाको किन विहर्तुमनसो ये च ध्वनेरध्वनि । क्षुभ्यद्भावतरङ्गिते रससुधापूरे मिमङ्क्षन्ति ये तेषामेव कृते करोमि विवृति माघस्य सर्वङ्कषाम् ॥ नेताऽस्मिन् यदुनन्दनः स भगवान्वीरः प्रधानो रसः 2 शृङ्गारादिभिरङ्गवान् विजयते पूर्णा पुनर्वर्णना । इन्द्रप्रस्थगमाद्युपायविषयश्चैद्यावसादः फलं धन्यो माघकविवयं तु कृतिनस्तत्सूक्तिसंसेवनात् ॥ इहान्वयमुखेनैव सर्वं व्याख्यायते मया । नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते ॥
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy