SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १२२ शिशुपालवधम् भावः । चरतीति चरः । पचाद्यच् । स एव चारो गूढपुरुषः । प्रज्ञादित्वात्स्वाथिकोऽष्प्रत्ययः । 'चारश्च गूढपुरुषः' इत्यमरः। स एवेक्षणं चक्षुर्यस्य स चारेक्षणः । अन्यथा स्वपरमण्डलवृत्तान्तादर्शनात् । 'अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे' इति भावः । दूतः सन्देशहरः। 'स्यात्सन्देशहरो दूतः' इत्यमरः। स एव मुखं वाग्यस्यासो दूतमुखः । अन्यथा मूकस्येव वाग्व्यवहारासिद्धी तत्साध्यासाध्यकार्यप्रतिबन्धः स्यादिति भावः । एवंभूतः पार्थिवः कोऽपि पुरुषोऽन्य एवायम् । लोकविलक्षणः पुमानित्यर्थः । अतो राज्ञा बुध्द्यादिसम्पन्नेन भवितव्यम् । एतदेवाप्रमत्तस्वम् । अन्यथा स्वरूपहानिः स्यादिति भावः । अत्र कोऽपीति राजो लोकसम्बन्धेऽपि तदसम्बन्धोक्त्या तद्रूपातिशयोक्तिः । सा च बुद्धिशस्त्र इत्यादिरूपकनिर्दी देति तेन सहाङ्गाङ्गिभावेन सङ्करः ।। ८४ ॥ अन्वयः---बुद्धिशम्नः प्रकृत्यङ्गः घनसंवृतिकन्चुकः चारेक्षणः दूतमुखः पार्थिवः कः अपि पुरुषः (राजोच्यते नान्य इत्युक्तं भवति ) ॥ ८४ ॥ हिन्दी अनुवाद-( उद्धवजी कहते हैं कि ) राजा एक अलौकिक पुरुष है-- जिसका शस्त्र तो बुद्धि है, प्रकृति ( स्वामी, मंत्री, सुहृत्, कोष, राष्ट्र, दुर्ग, तथा सेना आदि राज्य के सात अङ्ग) हो शरीर है, मन्त्र को गुप्त रखना ही कवच है, गुप्तचर ही नेत्र हैं और सन्देश हर (दूत ) ही मुख है, तात्पर्य यह है कि मंत्रशक्ति सम्पन्न पुरुष ही राजा कहा जाता है । ( अर्थात् राजा को बुद्धि सम्पन्न होना चाहिए) प्रकृत श्लोक में संकरालंकार है ॥ ८४ ॥ प्रसङ्ग-प्रस्तुत श्लोक में उद्धवजी बलराम के द्वारा पूर्व कथित वचन "श्लोक २-५४-दण्ड द्वारा साध्य रिपु के प्रति साम का प्रयोग करना हानिकर होता है" का उत्तर देते हैंचतुर्थोपायसाध्य इत्यादिना यत् क्षात्रमेव कर्तव्य मुक्तं, तत्रोत्तरमाह तेजः क्षमा वा नैकान्तात् कालग्रस्य महीपतेः। नैकमोजः प्रसादो वा रसभाग-विदः कवेः ॥ ८५॥ तेज इति ॥ कालं जानातीति कालज्ञस्तस्य । अयं काल इति विदुष इत्यर्थः। आतोऽनुपसर्गे कः, ( ३।२।३ ) न तु 'इगुपध'-(३।१।१३५) इत्यादिना कविधिः । समासे कर्मोपपदस्यव वलवत्त्वभाषणात् । तस्य महीपतेस्तेजः क्षात्रमेवेति वा एकान्तं नियमो न नास्ति । किन्तु यथाकालमुभयमप्याश्रयणीयमित्यर्थः। तथा हि-रसान् शृङ्गारादीन भावान् निर्वेदादींश्च वेत्ति यस्तस्य रसभावविदः । भावग्रहणं सम्पाता. यातम् । कवेः कवितुरेक केवलमोजः प्रौढप्रवन्धत्वं वा एकः प्रसादः सुकुमारप्रबन्धत्वं वा न । किन्तु तत्र हि रसानुगुण्येन यथायोग्यमुभयमप्युपादेयम् । दृष्टान्तालखारः ॥ ८५ ॥ १. नकान्तम् । २. रसभाव ।
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy